Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 50
________________ सर्वसिद्धान्तस्तवः कालिकमागाढयोगाराध्यं उत्कालिकमनागाढयोगसाध्यं ध्यायामि । श्रुतं हि द्विधा अङ्गप्रविष्टमनङ्गप्रविष्टं च । तत्र पायदुगं २ जंघोरू ६ गायदुगद्धं ८ च दो अ बाहू अ १० । गीवा ११ सिरं १२ च पुरिसो बारसअंगो सुअविसुद्धो ॥ गात्रद्विकार्द्ध= पृष्ठोदररूपम्, एवंविधश्रुतपुरुषस्य अङ्गेषु व्यवस्थितं अङ्गप्रविष्टम् । तथाहि-प्रवचनपुरुषस्य पादयुग्मं आचाराङ्गसूत्रकृताङ्गे जङ्ग्रे स्थानाङ्गसमवायाङ्गे इत्यादि । अथवा गणहरकयमंगगयं जं कय थेरेहिं बाहिरं तं तु । निअयं अंगपविट्ठ अणिअय सुअबाहिरं भणिअं ॥ [मू०] यस्याभवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्याऽनवद्यविधिसाध्या ॥४१॥ (आर्या) (अव०) यस्याः यस्या अद्यापि एकोनषोडशा:=पञ्चदश आदेशाः स्वप्नादिषु अतीतानागतवर्तमानकथनानि अवितथा: सत्याः भवन्ति । सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥४१॥ [मू०] वन्दे विशेषणवती सम्मतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृत-वसुदेवहिण्डीश्च ॥४२॥(आर्या) ( अव०) वन्दे० विशेषणवतीं सम्मति-नयचक्र वालतत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृतवसुदेवहिण्डीश्च' एतान् ग्रन्थान् अहं वन्दे ॥४२॥ [मू०] कर्मप्रकृतिप्रमुखाण्य पराण्यपि पूर्वसूरिरचितानि ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69