Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
__(अव०) जीवा० जीवाजीवनिरूपिण्यो द्वेधा द्विप्रकाराः प्रतिपत्तयो=युक्तयस्तासां' नवकं तेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाङ्गोपाङ्गं ध्यायेमध्यायामः । जीवानामुपलक्षणादजीवानामप्यभिगमो२=ज्ञानं यत्र तत् ॥२३॥ [मू०] षट्त्रिंशता पदैर्जीवाजीवभावविभावनीम् ।
प्रज्ञापनां पनायामि श्यामार्यस्याऽमलं यशः ॥२४॥ (आर्या)
(अव० ) षट्० षट्त्रिशता पदैः=अधिकारैर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाङ्गोपाङ्गं पनायामि =स्तौमि। श्यामार्यस्य-कालिकाचार्यस्य अमलं यशस्तत्र तदधिकारात् ॥२४॥ [मू०] विवृताद्यद्वीपस्थिति
जिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूदीपप्रज्ञप्ते ! तुभ्यमस्तु नमः ॥२५॥ (आर्या)
(अव० ) विवृ० हे ! भगवति ! जम्बूद्वीपप्रज्ञप्ते ! पञ्चमोपाङ्ग !। विवृ० विवृताः= प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममह:२ चक्रिणां दिग्विजयविधिश्च यया तस्यै तुभ्यं नमोऽस्तु ॥२५॥ [मू०] प्रणमामि चन्द्रसूर्यप्रज्ञप्ती
यमलजातिके? नव्ये । गुम्फवपुषैव नवरं नातिभिदाऽर्थात्मनापि ययोः ॥२६॥ (आर्या)
(अव०) प्रण० चन्द्रसूर्यप्रज्ञप्ती-चन्द्रसूर्यविचारप्रतिपादिके यमलजातिके सहजाते, नवरं केवलं गुम्फवपुषैव, गुम्फेनैव नव्ये= भिन्नग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनाऽपि न अतिभिदा भेदः,

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69