Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
[मू०] अङ्गष्ठाद्यवतरदिष्टदेवतानां,
विद्यानां भवनमुदात्तवैभवानाम् । निर्णीतास्रवविधिसंवरस्वरूपाः, प्रश्नव्याकरणदशा दिशन्तु शं नः ॥१९॥ (प्रहर्षिणी)
(अव०) अङ्ग अङ्गुष्ठादिषु आदिशब्दाद्दीपजलादिषु अवतरो= अवतरणं तेन दिष्टाः= कथिता देवता यासाम् । तासाम् उदात्तवैभवानां= उत्कृष्टमहिम्नां विद्यानां भवनं-स्थानम् । आश्रवविधिः कर्मपुद्गलादानं, संवर:=तन्निरोधः, निर्णीतं तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमाङ्गं नोऽस्माकम् शं सुखं दिशन्तु ॥१९॥ [मू०] ज्ञातैमूंगापुत्रसुबाहुवादिभिः
शासद्विपाकं सुखदुःखकर्मणाम् । द्विःपङ्क्तिसङ्ख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥२०॥(इन्द्रवज्रा)
(अव०) ज्ञातै० मृगापुत्रसुबाहुवादिभिदृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासत्-शिक्षयत् ज्ञापयदित्यर्थः । केषां ? १भव्यजीवानामिति गम्यम् । द्वि:पं० विंशत्यध्ययनालङ्कृतम् । श्रीमद्विपाकश्रुतमेकादशमाङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र' इवर्णादेरित्यनेन सूत्रेण (सि०हे० १।२।२१) परतो वत्त्वम्३ (परमते) । एतान्येकादशाप्यङ्गानि श्रीसुधर्मास्वामिना रचितानि । अन्येषां गणभृतां पूर्वनिवृत्तत्वेन सर्वगणधरशिष्याणां एतद्वाचनाग्रहणात्५ । अत एवादौ श्रीसुधर्मा नमस्कृतः ॥२०॥ [मू०] प्रणिधाय यत्प्रवृत्ता' शास्त्रान्तरवर्णनातिदेशततिः ।
नमतौपपातिकं तत्प्रकटयदुपपातवैचित्रीम् ॥२१॥(आर्या)

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69