Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
(अव०) तत्त० तास्ता एकादिदशान्ताः सङ्ख्यास्ताभिविशिष्टा ये अर्थास्तेषां प्ररूपणं कथनम् । तत्र परायणं तत्परं सतां समवायैः= समूहै: स्तुतं समवायाङ्गं वयं संस्तुमः ॥१३।। [मू०] या षट्त्रिंशत्सहस्रान् प्रतिविधिसजुषां बिभ्रती प्रश्नवाचं,
चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गा नयगमगहना दुर्विगाहा विवाहप्रज्ञप्तिः पञ्चमाझं जयति भगवती सा विचित्रार्थकोशः ॥१४॥ (स्रग्धरा)
(अव०) या ष० प्रतिविधिः=उत्तरं तेन सहितानां प्रश्नवाचां षट्त्रिंशत्सहस्रान् बिभ्रती-दधती या चत्वारिंशच्छतेषु अधिकारविशेषेषु, उद्देशकानां श्रेणिं परितः सर्वतः प्रथयति । सा विवाहप्रज्ञप्तिनाम्नी पञ्चमाङ्गम् । रङ्गन्तो ये भङ्गा रचना विशेषाः तैरूत्तङ्गा उ० कल्लोला: नया युक्तयो गमा:=सदृशपाठास्तैर्गहना= गुपिला, अकुशलैदुर्विगाहा । विचित्रार्थकोशो जयति । भगव(ती)तिरे पूजाभिधानम् ॥१४॥ [मू०] कथानकानां यत्रार्द्धचतस्त्र: कोटयः स्थिताः ।
सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथा श्रिये ॥१५॥ (अनुष्टुप् )
(अव०) कथा० यत्रार्द्धचतस्रः कथानकानां कोटयः स्थिताः सा ज्ञाताधर्मकथा नाम षष्ठमङ्गम् । उत्क्षिप्तादिभिर्ज्ञातैः=दृष्टान्तैर्हृद्या श्रियेऽस्तु ॥१५॥ [मू०] आनन्दादिश्रमणोपासक
दशकेतिवृत्तसुभगार्थाः ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69