Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 43
________________ सर्वसिद्धान्तस्तवः (अव० ) प्रणि० यत्प्रणिधाय-स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशानां ततिः = श्रेणिः प्रवृत्ता, अतिदेशो=अन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः सङ्केपेण कथनम्, तद् औपपातिकम् आचाराङ्गोपाङ्गम् । उप० देवनरनारकाणाम् उपपात-उत्पादस्तस्य वैचित्रीं प्रकटयत् । हे ! विद्वांसो यूयं नमत । आचाराङ्गस्य शस्त्रपरिज्ञाध्ययनाद्योद्देशके एवमेगेसिं नो नायं भवई' इत्यादि । अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदत्र प्रपञ्चत इत्यर्थः । अङ्गस्योप-समीपे उपाङ्गम् ॥२१॥ [मू०] सूर्याभवैभवं विभावनदृष्टतीर्थ प्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजिराजप्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥२२॥ (वसंततिलका) (अव०) सूर्या० सूर्याभदेवस्य वैभवं=ऋद्धिस्तस्य विभावनेन= ईक्षणेन दृष्टं यत्तीर्थ-प्रथमगणधरश्चतुर्विधः सङ्घो२ वा तस्य प्रश्नात्= पृच्छाया अनन्तरम् इनस्य श्रीवीरस्य आननं-मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि=शोभि । उप० युक्तिशतैरिद्धं दीप्तं राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि । प्रदेशी केशिना प्रतिबोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः । तत्रात्यद्भुतं तस्य तेजो वीक्ष्य श्रीसङ्घन प्रश्नः कृतः । सर्वेभ्यो देवेभ्य:३ किमित्ययमुत्कृष्ट ?इति ॥२२॥ [मू०] जीवाजीवनिरूपि द्वेधा प्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥२३॥ (आर्या)

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69