SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सर्वसिद्धान्तस्तवः विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥१६॥ (आर्या) (अव०) आनं० आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्य इतिवृत्तानि= चरितानि, तैः सुभगार्था उपासकदशानाममङ्गं विशदां भावदृशं ज्ञानं मम सदा दिशन्तु ॥१६॥ [मू०] महऋषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतौच्चैरन्तकृद्दशाः कृतिनः ॥१७॥ (आर्या) (अव०) मह० गौतमपद्मावतीप्रमुखाणां महऋषिमहासतीनां अधिकृतानि= प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशाः, हे ! कृतिन' ! उच्चैयूयं स्मरत ॥१७॥ [मू०] गुणैर्यदध्ययनकलापकीर्तिता अनुत्तराः प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥१८॥ (रुचिरा) (अव० ) गुणै० यदध्ययनकलापे कीर्तिताः=कथिताः प्रशमिषु =ऋषिषु गुणैश्चारित्रादिभिरनुत्तरा:=प्रधाना जालिमुख्यकाः, जालि= नमिऋषिः स एव मुख्यो येषां ते जालिमुख्या: । जालिमुख्या एव जालिमुख्यकाः, स्वार्थे कप्रत्ययः, अनुत्तराणि२= विजयादीनि पञ्च विमानानि तेषां श्रियम् अभजन् । अनुत्तरोपपातिकमिति उपपदं पूर्वपदं यासां ता अनुत्तरोपपातिकदशाः अहं श्रयामि ॥१८॥
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy