Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 115
________________ 216] संस्कृत-प्रवेशिका [विद्याथिकर्तव्य उपयुज्यते / तत्र प्रथमः आगमकालः (अध्ययनकालः), द्वितीयः स्वाध्यायकाल: ( बोधकालः), तृतीयः प्रवचनकालः (अध्यापनकालः), चतुर्थः व्यवहारकालः (प्रयोगकालः) / इमे एव चत्वारः कालाः ब्रह्मचर्याचाश्रमपदैरपि व्यपदिश्यन्ते / वेषु अधीयानाना (अध्ययनकालमापनानाम्) छात्राणां कर्तव्यानि अधो निरूप्यते - पूर्वम् अन्तेवासिनः ब्रह्मचर्याश्रमधर्मान् पालवन्तः अध्ययनसमाप्तिपर्यन्तम् अजन गुरुकुले ज्यवसन् / तेषां ब्रह्मचारिणां धर्माः धर्मशास्त्रादिग्रन्येषु विशेषतो वणिताः किन्तु इदानीन्सने शिक्षासंदर्भ विद्यापिनः कर्त्तव्यानि प्रधानतया सप्त परमावश्यकानि / तानि-(१) विद्योपार्जनम्, (2) शारीरिकशक्तिसंचयः, (3) नियमितता, (4) समयस्य' सदुपयोगः, (5) अनुशासनपालनम्, (6) गुरुभक्तिः, (7) चरित्रनिर्माणच / क्रमेण यथा-- 1. विशीपाजेनम्-छात्राणाम् अध्ययनं वाग्देव्याः उपासना तपः च / विद्या सदभ्यासबलेन लम्या भवति / विद्याधनं सर्वधनप्रधानम् / विद्यया च अमृतमश्नुते / अतः नियमितरूपेण यथाशक्ति विद्याभ्यासः करणीयः / विद्यागमस्य। स्थाने-(१) अध्यापकः (2) पुस्तकालयन / अतः पुस्तकालयस्यापि सम्यग् उपयोगः छात्रैः कार्यः / अवकाशदिनेषु पाठ्यपुस्तकसहायकानि पुस्तकान्तराणि अपि अध्येतव्यानि / अध्ययनकाले आलस्यम, दीर्घसूत्रता, चलता, अन्यमनस्कतां च परिहरेत् / वक्तृत्वकलायाम्, सुन्दरलेखने, भाषणे च योग्यता सम्पादनीया। 2. शारीरिकशक्तिसन्चयः-यदा शरीरं सबल स्वस्थश्च भवति तदैव पठनम्, लेखनम्, चिन्तनम्, कवित्वच्छ सर्वमपि सम्यम् भवितुमर्हति / वेदव्यासेन महाभारते कथितम्-'सर्व इलवर्ता साध्यम् / अतः छात्र नियमेन व्यायामः सेवनीयः / व्यायामश्व बहुविधः / यथा-क्रीडा (Games and Sports), सैनिकशिक्षा (N.C.C.), वण्ड-बैठकादिसंशका प्राचीनभारतीयव्यायामः योगासनादिर्वा / एतैः शारीरिकपाक्तिसंवर्धनं छात्राणां कृते नितान्तमावश्यकम् / 3. नियमितता-प्रातरुत्थानादारभ्य रात्री शयनपर्यन्तं बहूनि कार्याणि भवन्ति / यस्य कार्यस्य यः सभयो भवेत् तस्य तदैव अनुष्ठाने नियमितता / अस्याः परिपालनेन विद्याथिनां पूर्णविकासो भवति कार्याणि च यथासमयं सम्पद्यन्ते / 4. समयस्थ सदुपयोग:-व्यतीतः समयः न कथमपि पुनरायाति / यथोक्तम् वाल्मीकिना-यवतीतं पुनर्नेति स्रोतः शीघ्रमपामिव / ' अतः सर्वैः तथा प्रयतनीयं यथा क्षणमपि निरर्थक न गच्छेत् / ये समयस्य सदुपयोग न कुर्वन्ति ते आत्मनः एव हानि कुर्वन्ति, अन्ते च पश्चात्तापमनुभवन्ति / 5. अनुशासनपालनम्-यौवने अनुशासनस्य महती आवश्यकता। तद् विना कस्मिन्नपि क्षेत्र साफल्यं दुराशामात्रमेव / विद्यार्थिनां कृते तु इदमनिवार्यमेव, यतः आधुनिक विज्ञानम् ] 3 : निबन्ध [217 अनुशासनहीनारछात्राः अध्ययनपराङ्मुखाः भवन्ति / अध्ययनाध्यापनादिव्यवस्था च विनश्यन्ति / 6. गुरुभक्ति:-पिता माता आचार्यश्च एते त्रयोऽपि गुरवः / तेषां - शुश्रूषा छात्राणां कर्तव्यम् / विद्यालाभस्य श्रयः एव उपायाः, तेषु गुरुशुश्रूषा प्रधानतमा / यथोक्तम् - गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपपद्यते / / भगवत्प्राप्तिहेतुत्वाद् गुरवः देवकल्पाः भवन्ति / उपविष्टं च तत्तरीयोपनिषदः शिक्षावल्याम्-'मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव' इति / 7. चरित्रनिर्माणम्-पूर्व गुरुकुले न केवलं विद्यालाभः, परिवनिर्माणमपि शिक्षायाः उद्देश्यमासीत् / इन्द्रियसंयमः, मान्यजनानां सम्मानः, विनयः, सुशीलता, अलोलुपता, शिष्टाचारपालनम्, विहितनिषेवणम्, प्रतिषिद्धपरिवर्जनम् इत्यादिभिः गणगणः चरित्रनिर्माणं भवति / विद्याध्ययनस्य न ज्ञानमात्र फलं किन्तु सच्चरित्रनिर्माणमपि / विद्वांसः निसर्गतः निर्मलचरिताः भवन्ति / चरित्रदोषे विद्या गहिता भवति / तस्मादुदात्तचरित्रोपार्जनाय छात्रैः सततं प्रयतितव्यम् / विद्यार्थिनः देशस्य संसारस्य च भाविनः कर्णधारास्सन्ति / यदि ते स्वकर्तव्यपालन सम्यगरूपेण न कुयुः तहि समाजस्य देशस्य स्वस्य च कापि उन्नतिः असंभवप्राया। यतः ते एव अग्ने अध्यापकाः, न्यायाधीशाः, शासकाः, विविधपदभाजश्च भविष्यन्ति / स्वकर्तव्यच्युताः विद्यार्थिनः यदि तत्र स्थिताः सन्तः सम्यक् न अध्यापयेयुः, सम्यक् न्यायं म कुयुः, सम्यक् न अनुशासयेयुः, स्व-स्वपदोचितकार्यजातं च न सम्पादयेयुः तहि देशः समाजश्च विनाशगते निपतेताम् / तस्मात् छात्रः निर्दिष्टकर्तव्यपरायणैर्भाव्यम् / (15) आधुनिक विज्ञानम् ( विज्ञानं वरदानरूपम् अभिशापरूपं वा) भूतभौतिकपदार्थानां विश्लेषणात्मक ज्ञानम् आधुनिक विज्ञानम् / अद्य अस्यैव डिण्डिमघोषः सर्वत्र संसारे श्रूयते यतः साम्प्रतं मानवाः प्रायः आध्यात्मिकशानविमुखाः लौकिकसुखसाधनपरायणाश्च / तदर्थ कृतान् तान् सर्वान विश्वविस्मयकरान् नवनवान् आविष्कारान् लोको बहु मन्यते / अतएव अस्मिन् विज्ञानयुगे मानवाः बाल्यकालादारय मत्युपर्यन्तं विज्ञानकोडे खेलन्तः दृश्यन्ते, प्रकृतिश्च विज्ञानस्य अनुधरीव प्रतीयते / अधुना विज्ञान प्रकृतेः अनन्तशक्तीनां रहस्यानि उद्घाटयत् तस्यां सर्वथा प्रभवितुमपि प्रयतमानमिव परिदृश्यते / विज्ञानेन मानवसभ्यतायाः स्वरूपमेय परिवर्तितम् / सर्वत्र जीवनस्य प्रत्येकक्षेत्र मानवजातिः वैज्ञानिकशक्त्या प्रभाविता पणते /

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150