Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 218] संस्कृत-प्रवेशिका [आधुनिक विज्ञानम् मानवोऽपि विज्ञानमयः संवृत्तः / विज्ञानप्रभावादेव इदानीम् अगम्यमपि सुगमम्, असाध्यमपि सुसाध्यम्, अदृश्यमपि सुदर्शनम्, अलभ्यमपि सुलभं जातम् / वैज्ञानिकाविष्काराः संक्षेपेण चतुषु प्रकारेषु विभाजयितुं शक्यन्ते-(१) दैनन्दिनोपयोगिनः, (2) आधि-व्याधिहराः, (3) मनोरञ्जकाः, (4) विध्वंसकात्र / तत्र आधाः पयः जनहितसाधकाः इति वरदानरूपाः, अन्तिमच हानिकरः इति अभिशापरूपः, परं शत्रोराक्रमणकाले स्वरक्षासंपादनेन चतुर्षोऽपि वरदानरूपः / (1) दैनन्दिनोपयोगिन: अत्र परिगणनीयाः आविष्काराः अधोलिखितास्सन्ति- . (क) यानानि---ट्रेन (वाष्पयान ) मोटर (मृत्तरः)-स्कूटर-साईकिल (द्विचक्रयान)-प्रभृतीनि स्थलयानानि; एरोप्लेन-हेलिकाप्टर-अपोलो-लूना प्रभूतीनि वायुयानानि; शिप-स्टीमर (वाष्पनौका)-पनडुब्बी (जलान्तर्वति-नौका)-प्रभृतीनि जलयामानि सन्ति / एतैः यानः कष्टबहुला चिरकालिकाऽपि यात्रा सुखेन स्वल्पेन च समयेन सम्पाद्यते / स्थने, भूगर्भ, दुर्गमप्रदेशे, जले, अन्तरिक्षं च सर्वत्र मानवानाम् अपतिहता गतिः संजाता / अधुना अपोलो-लना-संज्ञकः वायुयानः चन्द्रलोकयात्रा सफलीभूता। अन्येष्वपि ग्रहेषु तल्लोकेषु वा यात्रायै सततं प्रयत्नाः विधीयन्ते / (ब) विद्यत् , तनिबन्धनानि यन्त्राणि उपकरणानि च-विद्युतः प्रधानं कार्य प्रकाशः / एषः प्रकाशः अतिनिविटेऽन्धकारे सौरप्रकाशम् अतिशयान इव प्रतीयते / विद्युबलेन वायुसन्धारः, शीततापनिवारणम, विविषयानयन्त्रादिसन्चालनम्, अन्येषां दुष्करकार्याणां च सम्पादनम् पूर्वमशक्यमपि इदानी सम्भवति / कि बहुना, प्रायः सर्वेषामपि वैज्ञानिकाविष्काराणाम् इयं आधारशिला / (ग) प्रसार-सूचनायन्त्राणि-टेलीग्राम-टेलीफोन (शब्दसंवादयन्त्रम्)-रेडियो (ध्वनिविक्षेपकयन्त्रम् )-केबुल लाउडस्पीकर-टेलीप्रिंटर-टिलेक्स-टेलीविजन-राबारवायरलेस-पटीयन्त्रप्रभृतीनि प्रमुखानि यन्त्राणि / एतैः गृहस्थितेनापि अतिविप्रकृष्टः सह वार्ता, अतिदूरस्थ-संगीत-समाचाराविश्रवणम्, अन्यत्रभाविना वृत्तान्ताना तात्कालिकाधिगमः, देशान्तरस्थपुरुषादीनां रूपसाक्षात्कार, आरात् स्थले जले नभसि वा प्रचलतो वायुयानानां नक्षत्रादीनां सूचनीपलम्भः, घण्टादिविभागेन समयपरिज्ञानं च सम्भवति / किं बहुना, एतबलेन त्वरितगतिः सर्वचरो वायुरपि पराजितः / अतिविस्तृतमपि इदं जगत् स्वाङ्गणस्थमिव जातम् / (घ) प्रेक्षायन्त्राणि-टेलिस्कोप (दूर-सूक्ष्मवीक्षकयन्त्रम् )-कैमरा-उपनेत्र(चश्मा) प्रभुतीनि प्रेक्षायत्राणि विशेषतः उल्लेख्यानि / टेलिस्कोपयन्त्रण लौकिकप्रत्यक्षातिगमः अपि अतिसूक्ष्म-विप्रकृष्टपदार्थानां सम्यक् प्रेक्षणं सम्भवति / चित्रण आधुनिक विज्ञानम् ] 3 : निबन्ध [216 यन्त्रण (कैमरा) एकस्य बहूनां समवेतानां वा यथावस्थचित्रणं गृह्यते / उपनेत्रद्वारा दुर्बलचक्षुषाऽपि सूक्ष्माणि, अन्यथा अनधिगम्यानि च अक्षराणि साक्षात्कत शक्यन्तै / (ङ) अन्यानि विविधयन्त्राणि-टंकण (टाइपराइटर-टेलिप्रिण्टर-टिलेक्स)मुद्रण (प्रिंटिंग-मशीन)-गणन (कंप्यूटर ) कृषि (टेक्टर, हारवेस्टर, टयूब्बेल)प्रभूतीनि उद्योग वाणिज्य (मिल, फेक्टरी, मशीन )-प्रभुतीनां विविधानि यत्राणि विवरणीयानि सन्ति / एतेषां तत्सत्क्षेत्र अभूतपूर्वः आश्रर्यजनकः प्रभावः सर्वेषा तस्सु कौतुकमावहति / साम्प्रतं बहुजन-चिरकालसाध्यमपि कार्य यन्त्रद्वारा अतिपरिमितपुरुषैः स्वल्पेनव कालेन चारुतरं सम्पाद्यते / (2) आधिव्याधिहरा:-अधुना प्रचलतां बहूनां भयंकररोगाणां प्रशमाय विज्ञानेन नूतनानि एक्सरे-रेडियम सर्जरी-प्लास्टिकसर्जरीप्रभुतीनि चिकित्सासाधनानि आविष्कृतानि, तदर्थ पेनासिलिन-स्ट्रेप्टोमाइसिन-एक्रोमाइसिन क्लोरोमाइसटिनप्रभृतयः नवीनौषधयश्च निमिताः। मानसिकरोगाणां कृते मनोवैज्ञानिकोपायाः अपि प्रादुर्भाविताः / किंबहुना, विज्ञानस्य प्रभावेण नवीनहृदयादिरोपणादिकम् अपि प्रयत्यते; बधिराः शृण्वन्ति, मूकाः वदन्ति, पङ्गवः चलन्ति च / (3. मनोरञ्जकाः-प्रामोफोन-रेडियो-रेडियोग्राम-रिकार्डप्लेयर-टेपरिकार्डरप्रभृतीनि ध्वनियन्त्राणि, हारमोनियम-आर्केष्ट्रा-वेला-सरोदप्रभृतीनि नवीनवाद्ययन्त्राणि; टेलीविजन चलचित्र-(सिनेमास्कोप)प्रभृतीनि चित्रमययंत्राणि मनोरञ्जमसाधनानि / एतेषामाविष्काराणां प्रभावेण मनोरञ्जन सुलभं सर्वजनसाधारणं च सातम् / तेषु पलचित्राणाम् माविष्काराः विशेषतः उल्लेख्याः / तदङ्गशालासु ( Cinema Hall) प्रदर्शिता अवर्णनीय प्रभावोत्पादकाभिनयाः जनानां श्रान्तिम् अपहरन्ति, प्रमोदं च जनयन्ति / (4) संहारकाः-एटमबम-हाइड्रोजनबम ( उद्जनबम )-प्रभृतीनि विष्फोटकक्षेप्यास्त्राणि; मोरादिसंज्ञकनूतनशतघ्नी-भुशुण्डीप्रभुतीनि विविधायुधानिः टैकटारपीडो-मिग-मिराज-प्रभृतीनि आधुनिक युधयन्त्राणि च दारुणानि आग्नेयास्त्राणि आविष्कतानि / एतैः विश्वविनाशोऽपि क्षणमात्रलीला / एतेषामाविष्कारे रुस-अमेरिकादेशी अग्रगण्यौ। द्वितीय महायुद्ध अमेरिका जापानदेशस्य हीरोशिमा-नगर्याः [नागासाक्याच] उपरि परमाण्वस्त्र (Atom-Bomb) प्रक्षिप्तं येन क्षणेनैव सा स्वर्ग कल्पा महानगरी दग्धोत्खाता मरुभूमिरिव संजाता। इत्थम् आधुनिकाः वैज्ञानिकाः आविष्काराः एकत्र मानवानां श्रेयसः सम्पावन कुर्वन्ति अन्यत्र तेषां. विनाशम् / एवं विज्ञानं वरदानरूपम् अभिशापक पति पक्षद्वयम् /

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150