Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 284 ] संस्कृत-प्रवेशिका [ समाचारपत्रम् स्सन्ति / पञ्चवर्षीययोजनासु मैनिकशिक्षापरिवर्धनाय अस्त्रशस्त्रनिर्माणाय च विशेषस्वानं प्रदत्तम् / अद्य भगवन् महावीर-बुद्ध-गान्धिप्रभृतिभिरुपदिष्टा अहिंसानीतिः सदा एवं चरितार्या भविष्यति यदा वयं शक्तिसम्पनः भवेम / अन्यथा दुर्बलानां कृते सा हास्याय एव / अहिंसा सिद्धान्ततः रम्या भवेन्नाम किन्तु व्यवहारे दौर्वस्यप्रकाशिकैव / युद्ध विना न शक्तिनिर्णयः, शक्ति विना न रक्षा संभवति, रक्षा दिना सुखशान्तिममृद्धिविकासासम्भवः / तस्मात् अनिच्छतोऽपि.यद्धम् अपरिहार्य / ज्ञानविज्ञान-सभ्यतानां चरमोत्कर्षेऽपि पाक्तिप्राधान्यम् अक्षुण्णम् / साम्प्रतं तस्यैव बेशस्य डिण्डिमघोषः ( बोलवाला ) यः सैनिकदृष्ट्या सुसम्पन्नः समृद्धाश्चास्ति / शक्त्यभावे अहिंसावादः पाक्तिहीनतातिरोधानाय कवचमात्रम् / निःशस्त्रीकरणस्य विश्वशान्तिस्थापनायाश्च प्रस्तावौ तस्यैव देशस्य शोभेते यः सैन्यसमृद्धिसम्पन्नः, न चे दुर्बलस्य / यथोक्तम् शक्तिः सबलता यत्र, क्षमा तत्रैव शोमते / सा निर्बले तु हास्याय, विषहीनभुजङ्गवत्.।। सैनिकशिक्षा केवलं पुस्तकीयशिक्षा नास्ति अपितु सैनिकशिक्षायाम् अनु. शासनम् शारीरिकसंघटनम्, देशभक्तिः, शत्रषु प्रतिशोधभावना, देशार्य प्राणपरित्यागसंकल्पः, बुद्धिमत्ता, जागरूकता इत्यादयः सर्वेऽपि अपेक्ष्यते / राष्ट्र तावच्छरीरम्, सुसैनिकास्तु करचरणकल्पावयवाः इति / समाचारपत्रम् ] परिशिष्ट : 9 : निबन्ध-संग्रह [285 समाचारपत्रं प्रचलितमासीत् / भारतवर्षे तु मुगलसाम्राज्यकाले हस्तलिखितं 'संवादपत्र' केवलं शासनाधिकारिषु प्रयुक्तमासीत् / पश्चाद् आगतेषु गौराङ्गषु बत्र 1740 खिण्टाग्दे 'इण्डिया-गजट' मामनम् आग लभाषापत्रं सर्वप्रथम प्रारभत / हिन्दीभाषायाः प्रथम पत्रं 'समाचारदर्पण' नाम्ना प्रकाशित मभवत् / शनैः दानः शिक्षाप्रसारेण सहैव पत्र-पत्रिकायां तत्वाठकानां च संख्या द्रुतमपर्वत / इदानीं समस्तभूमण्डल समाचारपत्रः परित्याप्तम् / न कापि भाषा यस्यां समाचारपत्राभावः। समाचारपत्राणि बहुविधानि / यथा-प्रकाशनकालभेदेन-दैनिक-अर्धदैनिकसाप्ताहिक-अर्धसाप्ताहिक-पाक्षिक-मासिक-त्रैमासिक-पाण्मासिक-बधिकाणिः विषय. भेदेन-राजनीति-धर्म-दर्शन-वाणि ज्या दिगोचराणि; भाषाभेदेन-हिन्दी-अंग्रेजीबंगला-प्रभृतिसंबन्धीनि अपि समाचारपत्राणि भिद्यन्ते / पाक्षिक-मासिक-त्रैमासिका. दिपत्राणां केचन साप्ताहिकपत्राणां च परिगणना न समाचारपत्रेषु किन्तु पत्रिका ( Magazines ) क्रियते, तेषु समाचारापेक्षया लेखबाहुल्यात् / समाचारपत्रेषु समाचारस्य प्राधान्यं भवति / यद्यपि तत्रापि विविधविषयकाः विचाराः, निबन्धाः, विज्ञापनादयश्च प्रकाश्यन्ते तथापि तेषां प्रणाप्रदः समाचार एव / / समाचारपत्राणामनेके लाभास्सन्ति / यथा-१. यत्र कुत्रापि स्थितो मानवः संसारस्य सर्वविधान् नवीनतमसमाचारान् विजानाति / 2. सेवावृत्ति-विवाहव्यवसायादिविषयक: विज्ञापन: पाठकाः लाभान्विताः भवन्ति / 3. समाचारपत्राणि जनता-समाज-शासकादीनां परस्परविचारविनिमयसाधनानि भवन्ति / समाचारपत्रद्वारा समस्यानां समाधानम्, मनोगतभावानां प्रकाशनम्, अधिकारिध्यानाकर्षणं च संपद्यते / 4. राष्ट्रियभावनायाः उद्बोधनम्, सभ्यतायाः संस्कृततेश्च प्रचारः, साहित्यिक-समीक्षा, परीक्षाफलादिघोषणा, लोकमताकलनम्, जनमत निर्माणम्, जनमनोरञ्जनम्, सूचनाप्रसारः एवंविधानि बहूनि कार्याणि समाचारपत्र सम्यक् प्रसाध्यन्ते / समाचारपत्राणां यथोपरिणिताः लाभाः तथा हानबोऽपि बहविधाः / तद्यथा१. मिथ्यासमाचाराणां प्रसारणम, 2. सत्यसंगोपनम, 3. जघन्यस्वार्थसाधनम्, 4. अश्लील विज्ञापनादिभिः समाजस्य अधःपातनम्, 5. देशहितप्रतिकूलसमाचारप्रकाशनम्, 6. पक्षपातपूर्ण समालोचनादिभिः पारस्परिकविद्वेषवर्द्धनम्, 7. कुत्सितवातावरणनिम णिम् इत्यादयः / वस्तुतस्तु नेमे समाचारपत्राणां दोषाः किन्तु तदधिकारि-शासनादिजनिताः / दोषपरिमार्जनाय सम्पादकः संवाददातृभिः अधिकारिभिश्च निदोषः निर्भीकैः सत्यप्रणयिभिश्च भाष्यम्, येन समाचारपत्र तथ्यमेव प्रकाशयेत्, न तु विपरीतम् / (37) समाचारपत्रम् अब समाचारपत्रं मानवाय तथैवावश्यकं यथा तस्य जीवनयापनाय अन्नं वस्त्रं च / 'मनुष्यः सामाजिकः प्राणी' इति सः समाजस्य देशविदेशयोश्च सर्वविधं वृत्तम् अवगन्तुं मदैव स्वभावतः समुत्सुको भवति / मानवस्य इमो प्रवृत्ति पूरयितुमेव / समाचारपत्रस्य जन्म अभवत् / सर्वत्र प्रतिक्षणं घटमानाना वृत्तानां विस्तृतरूपेण शानं समाचारपत्रादेव द्वाग् भवितुमर्हति / अधुना य: संसारस्योदन्तान् न जानाति सः मूर्खः कूपमण्डूको वा मन्यते। संसारः सर्वक्षेत्रेषु क्षिप्रं परिवर्तते / अतः यो नवीनतमघटना ( Latest developments)-अनभिज्ञातः सः जीवनयात्रायां समीहितां सफलतां नाधिगच्छति / एवम् अद्य मानवजीवने सत्यति दूरदर्शनयन्त्र समाचारपत्राणां महती उपयोगिता अस्ति। समाचारपत्राणामितिहासः नातिप्राचीनः / सर्वप्रथमं यूरोपमहादेशे इटलीदेशस्य 'वेनिस'-नगरे षोडशशताब्यां समाचारपत्र प्रादुरभवत् / ततः परं अमनी-इंग्लैण्डप्रभृतिदेशेषु अस्य प्रसारीऽभवत् / धूयते यत् चीनदेशे एकादा शताब्द्यामेव

Page Navigation
1 ... 147 148 149 150