Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 10
________________ प्रथमो भवः विलप्यैवं द्वितीयेऽह्नि गतः प्रातस्तपोवनम् । नत्वा कुलपति लज्जानम्रास्यो न्यषदन्नृपः || १३०॥ विचित्ततां परिज्ञाय तस्योवाच मुनीश्वरः । किं ते दुःखं महाराज ! कथ्यं चेत्कथ्यतां मम ॥ १३१ ॥ नृपोऽवदत्तदप्यस्ति किं किञ्चिद्यन्न कथ्यते । युष्मादृशमहर्षीणामषडक्षीणमप्यलम् ॥१३२॥ परं नृशंसमेतादृक् चरितं यन्न शक्यते । वचसा शंसितुं किं तु युष्मदाज्ञेति कथ्यते ॥१३३॥ मद्दुश्चेष्टितनिर्वेदादग्निशर्मा तपस्व्यभूत् । आत्तव्रतेऽपि ही तस्मिन्मदीयं दुष्टचेष्टितम् ॥१३४॥ यन्निमन्त्र्य मया मासपारणेऽसौ न भोजितः । शिरोर्तिजप्रमादेन तत्पापं मम दुर्वचम् ॥ १३५ ॥ षड्भिः कलापकम् ऊचे कुलपतिर्वत्स ! त्वं खेदं मा कृथा वृथा । अलाभे हि तपोवृद्धिस्तस्य प्रत्युत संपदः ॥ १३६ ॥ नृपोऽवादीदयं खेदः कथं शाम्यत्यभोजिते । तस्मिन्महामुनौ गाढप्रतिज्ञाभरधूर्वहे ||१३७|| श्रुत्वेति तापसाचार्यः समतौदार्यसुन्दरः । अग्निशर्माणमाकार्य कार्यवेदीत्युवाच तम् ॥१३८ ।। वत्स ! चित्तं तवातुच्छमतुच्छं दुस्तपं तपः । अतुच्छः समताभावोऽतुच्छचाभिग्रहग्रहः ॥ १३९ ॥ १३ यत्त्वं समेतो भूपस्य गृहादकृतपारणः । तेनासह्यतमेनैष हृदि दन्दह्यतेऽधिकम् ॥१४०॥ १. ० भारधूर्वहे क । १४ समरादित्यसंक्षेपः तत्प्रार्थयन्तमेतं च मां च मानय मानद । मासान्ते पारणं कार्यं गृहेऽस्य धरणीभुजः ॥ १४१ ॥ इत्यूचुषा धृतो बाहौ गुरुणा करुणावता । बहुमानेन तस्यासावमानस्तदमानयत् ॥ १४२ ॥ पञ्चभिः कुलकम् अवोचच्च ममानेन परलोकविरोधकृत् । न किञ्चन कृतं येन चित्ते संतप्यतेऽधिकम् ॥१४३॥ अहो महानुभावत्वमस्येति नृपतिर्वदन् । नत्वा कुलपतिं तं च मुदितः स्वपुरं ययौ ॥१४४॥ तत्पारणदिन ध्यानशुद्धधीरवनीश्वरः । मुनीश्वरश्च सद्ध्यानबद्धधीर्मासमक्षपत् ॥ १४५ ॥ अङ्गुलीभिर्गणयतस्तत्पारणकवासरः । गुणसेनमहीभर्तुः सुमुहूर्त इवागमत् ॥१४६॥ इतः कुलपतेर्वाचा सदाचारशिरोमणिः । अग्निशर्माऽस्तदुष्कर्माऽभूत्तदागमनोन्मुखः || १४७ || तत्पारणदिनप्रातः समयेऽथ समागतः । स्पर्शः शशंस भूपस्य वचः श्रवणदुः श्रवम् ॥१४८॥ देव देवस्य या सेना रभसेनाऽद्रिसन्धिगा । व्यद्राव्यत प्रमत्ता सा मानभङ्गमहीभुजा ॥ १४९ ॥ अवस्कन्दस्य दानेनाऽऽस्कन्द्य तावकसैनिकान् । मानभङ्गस्त्वयि स्वामिन्निजं नाम न्ययोजयत् ॥१५०|| श्रुत्वेति भूपतिः कोपारुणदारुणलोचनः । परिकम्प्राधरः पाणितलप्रहतभूतलः ॥ १५१ ॥ १. क्षिपत् क । २. निजनाम क ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 215