Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 8
________________ प्रथमो भवः द्वितीयदिवसे प्रात:कृत्यमाधाय कृत्यवित् । वाहकेल्यां गतो वाहानवाहयदयं बहून् ॥८४|| ततः श्रान्तः स विश्रान्तः सहस्राम्रवने वने । यावत्तावत्समायातां द्वौ तापसकुमारकौ ॥८५॥ तौ स्वसिद्धान्तसिद्धाशीर्वादेनाऽऽनन्द्य भूपतिम् । अभ्युत्थानासनाद्यैस्तन्मानिताविदमूचतुः ॥८६।। आवां कुलपतिः प्रैषीन्महाराज ! तपोवनात् । वर्णाश्रमगुरोस्तेऽङ्गप्रवृत्तिज्ञानहेतवे ॥८७|| श्रुत्वेति नृपतिर्भक्तिकौतुकाभ्यां तपोवनम् । गतोऽनंसीत्कुलपतिं तपस्विपरिवारितम् ॥८॥ निर्गम्य धर्म्यवार्ताभिः कञ्चित्कालं नरेश्वरः । रोमाञ्चितवपुर्भक्त्यावादीत्कुलपति प्रति ॥८९॥ धन्योऽस्मि यस्मै मे यूयं निस्पृहाः स्पृहयालवः । मुनी प्रेष्य ममाङ्गस्य प्रवृत्तिं ज्ञातुमिच्छवः ॥९०|| तद्विभो धन्यमूर्धन्यं कुर्वन्गुर्वनुकम्पया । मद्गृहे विविधाहारग्रहेणानुगृहाण माम् ॥११॥ ततः कुलपतिः प्राह वर्णाश्रमगुरोस्तव । प्रवृत्तियुज्यतेऽस्माकं ज्ञातुमाश्रमवासिनाम् ॥१२॥ किं च सौधे तवाहारग्रह: संगतिमङ्गति । अस्ति किं त्वग्निशर्माख्यो धर्मारामघनो मुनिः ॥९३।। कृतमासोपवासोऽपि न भिक्षां लभते यदि । आद्ये गृहे पुनर्मासोपवासी जायते ततः ॥१४॥ स कृतध्यानसंधानः सावधानो मनोजये । अशनायां न जानाति रसनायां निरीहधीः ॥१५॥ समरादित्यसंक्षेपः तत्तं महामुनि मुक्त्वा प्रार्थना सफलाऽस्तु ते । स्थानस्थोऽपि हि षष्ठांशं धर्मस्य लभते भवान् ॥९६।। पञ्चभिः कुलकम् क्व सोऽस्तीति नृपप्रोक्ते प्रोचे मुनिमतल्लिका । रसालशालवीथ्यां स ध्यानस्थस्तप्यते तपः ॥९७|| गतस्तत्र धृतध्यानं सानन्दाश्रुनिरीक्ष्य तम् । इलातलमिलन्मौलिर्नरमौलि: समानमत् ॥९८॥ दत्ताशीस्तेन भूनेताऽपृच्छत्तं स्वच्छमानसः । तपसो दुस्तपस्यास्य हेतुः को नाम ते मुनि ॥१९॥ सोऽवदहुःखदारिदयपराभवविरूपताः । कल्याणमित्रं राज्ञस्तुक् गुणसेनश्च हेतवः ॥१००।। स्वनामाशङ्कितो राजावऽदद् दुःखादिहेतवः । सन्तु कल्याणमित्रं तु गुणसेनः कथं नु ते ॥१०१।। मुनिः प्राह महाराज भजन्ते स्वयमुत्तमाः । मध्यमाः प्रेरिता धर्मं कथञ्चिदपि नाधमाः ॥१०२।। जीवं नयेन केनाऽपि धर्मे नुदति यः पुमान् । कल्याणमित्रं स ज्ञेयः कर्षन्संसारचारकात् ॥१०३।। युग्मम् राज्ञा कौमारवृत्तान्तं स्मृत्वोचे भगवन्कथम् ? । तेन त्वं प्रेरितो धर्मे स प्रोचे हेतुमात्रतः ॥१०४|| दध्यौ नृपो महात्माऽयमहो मेऽभिभवं कृतम् । प्रेरणां मन्यते धर्मे पापात्माऽहं तु हन्त हा ॥१०५॥ ध्यात्वेत्युवाच तं पापः स एवाऽस्मि महामुने ! । अपूर्वो गुणसेनोऽहं सपूर्वोऽपि पुरा तव ॥१०६॥ मनिरूचे महाराज ! गणसेनः कथं भवान् । येनाहं परपिण्डादः प्रापितः श्रियमीदृशीम् ॥१०७।।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 215