Book Title: Samaraditya Sankshep Author(s): Prashamrativijay Publisher: Pravachan Prakashan Puna View full book textPage 9
________________ प्रथमो भवः राज्ञोचे मनयोऽवश्यं सर्वदाऽपि प्रियंवदाः । कथं सुधांशोरङ्गारवृष्टिसृष्टिः कदाचन ॥१०८॥ अलमालप्य तद्वालचेष्टितं मे निवेदय । कदा ते पारणं भावि सोऽवदत् पञ्चभिर्दिनैः ॥१०९।। राजावदीत् प्रसादोऽयं कार्यो मय्यथ सोऽवदत् । तत्तत्रैव दिने ज्ञेयं क्षणक्षयिणि जीविते ॥११०॥ यस्य मैत्री यमेन स्याज् ज्ञानं वा भुवनाऽद्भुतम् । स एवं वक्ति कल्येऽद: करिष्याम्यपरः कथम् ॥१११।। अतस्तज्ज्ञायते नार्वागिति श्रुत्वा नृपो जगौ । विघ्नं मुक्त्वा भवत्वेवं मुनिः प्राह भवत्विति ॥११२।। नत्वा नृपोऽथ तं यातः पुरं कुलपतेर्व्यधात् । पूजां सपरिवारस्य भक्तिवैभवसन्निभाम् ॥११३।। अथाऽग्निशर्मा सम्प्राप्तः सौधं पारणवासरे । शिरोऽतिदिवसे तत्रातीव तीव्रास्ति भूपतेः ॥११४॥ प्राविक्षन्बहवस्तत्र वैद्या वैद्यकवेदिनः । पिष्यन्ते भेषजान्युच्चैः क्रियते च प्रलेपनम् ॥११५।। किङ्कर्तव्यविमूढाश्चाऽभूवन्मन्त्रिमहत्तमाः । सर्वमन्तःपुरं चासीद्वाष्पक्लिन्नविलोचनम् ॥११६।। संत्यक्तकन्दुकक्रीडं कन्याऽन्तःपुरमप्यभूत् । वेत्रिकञ्चुकिसूदाद्यं विचित्तं सर्वमस्ति च ॥११७।। कालं कियन्तमप्येवंविधे नीत्वा नृपालये । अकृतप्रतिपत्तिः सोऽग्निशर्मा निर्गतस्ततः ॥११८।। पञ्चभिः कुलकम् समरादित्यसंक्षेपः गतस्तपोवनं म्लानो दृष्टः पृष्ठश्च तापसैः । मुने किं पारणं नाभूद्गुणसेननृपालये ॥११९।। सोऽवादीदगमं तत्र गात्रेण त्वपटुर्नृपः । उद्विग्नं सकलं राजकुलं तेन न पारणम् ॥१२०॥ तेऽवदन् सत्यमेवेदं शरीरेणापर्टर्नपः । अन्यथा कथमागच्छेद्भगवानप्यपारणः ॥१२॥ नृपस्य पक्षपातो हि भगवन्नधिकस्त्वयि । यतः कुलपतेरग्रे गुणास्तव बहु स्तुताः ॥१२२।। अग्निशर्माऽवदत्तस्मै गुरुगौरवकारिणे । अस्तु स्वस्तीति जल्पित्वा पुनर्मासोपवास्यभूत् ॥१२३।। इतश्च भूभुजा भूरिभेषजास्तशिरोतिना । पृष्टः परिजनः किं न महामुनिरिहाऽऽमत् ॥१२४।। तेनोक्तमागतः सोऽभूत्कि तु देवव्यथावशात् । आकुले सकले राजकुले केनाऽपि नार्चितः ॥१२५।। तदाकर्ण्य नृपः शान्तशिरोतिरपि तत्क्षणात् । उत्पन्ननव्यचित्तातिविलापमकरोदिति ॥१२६।। अहो अहमधन्योऽस्मि पुण्यहीनश्च यस्य मे । कल्पद्रुरङ्गणायातोऽप्यदत्त्वा निर्गतः फलम् ॥१२७|| यदेव पारणं पुण्यकारणं सुकृतात्मनाम् । पापात्मनस्तदेवेदं ममाभूत्पुण्यवारणम् ॥१२८॥ भेषजैः शान्तिमायाता शिरसो वेदना मम । मनसो वेदनायास्तु शमनेऽस्या न भेषजम् ॥१२९।। कलापकम् १. Instead of क्षणक्षयिनि (sic) it would be better to read क्षणक्षयि हि जीवितम् । १. बहुश्रुताः क।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 215