Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 7
________________ भूमिका । द्धः । एतेषां तनयरत्नभूताः जगद्गुरवः श्रीधर्मदत्तोपाध्यायापरपययाः प्रसिद्ध श्री६ वच्चाकाशर्माणः एतैर्लक्षाधिकश्लोकसङ्ख्यातानि निवद्धानि ग्रन्थरतनिनि । तानि च व्याप्तिपञ्चकविवेचनम् १ सिद्धान्तलक्षणविवेचनम् २ श्रवच्छेददत्वनिरुक्तिविवेचनम् ३ । व्याप्त्यनुगमविवेचनम् ४- व्युत्पत्तिबाद गूढार्थतत्त्वालोकः ५ शक्तिवादटिप्पणम् ६ सामान्यनिरुक्तिगुढार्थतत्त्वालोकः ७ पक्षताटिप्पणम् = सव्यभिचार-: टिप्पणम् ९ सत्यपिक्षटिप्पणम् १० श्रवयव टिप्पणम् ११ : खण्डनखाद्यटिप्पणम् - १२ ईश्वरमहाविद्यानुमानविवेचनम् १३ कुसुमाञ्जलि - वर्धमानटिप्पणम् १४ न्यायभाष्यटीका - १५ न्यायवार्तिकतात्पर्यटीका१६ गीतामधुसूदनां गूढार्थतत्वालोकः १७ कुण्डमण्डपसिद्धिटीका १८ श्रद्वैतसिद्धिचन्द्रिका टिप्पणं १६ सुलोचनामाधवं चम्पू काव्यं २० च । इष्टापूर्तेषु च सचतुश्चरणयचपुष्करिणीनिर्मितिः शिवालयनिर्मितिःतत्प्रतिष्ठा अनेकाराम निर्मितिश्च । पतन्निमितेषु ग्रन्थेषु व्युत्पत्तिवादव्याप्तिपञ्चकावच्छेदकत्वनिरुक्तिसामान्यनिरुक्तिमधुसूदनी गुढ़ार्थत. वावलोका मुद्रिता एव, खण्डनटिप्पणञ्च श्ररव्यमुद्रणम् । एते गुरवः श्राजीवनम् स्वगृहवहिर्वेदिकायामेव परोविशर्तिद्धावान् श्रन्नव स्त्राद्युपकरणैः सुतनिर्विशेषं पालयन्तः अध्यापयन्ति स्म । अपरे च नानादिग्देशेभ्यः समागत्य यतयो विशिष्टमतयेो द्विजातयश्च साकमध्ययनायव सन्तोऽधिगच्छन्तः शास्त्रणि काशिकादिमहाविद्यापी स्मारयन्तः गृहीतक्षेत्रन्यासा इव येषां गृहाण्यध्यवात्सुः इदानीमेतेषां श्रीगुरूणां शिष्यैः प्रशिष्यैस्तच्छिष्यैः परः सहस्त्रैर्व्याप्तमिदं भुवनतलमिति विदितमेव समेषां न किञ्चिदत्र वक्तव्यम् । श्रीगुरुः आजीवनम् अर्थिसमविभागं स्वीयं मुञ्जानो लोकोत्तरतां स्वचरितततिं नयन् पुरुषोत्तम इव ब्राह्या श्रिया पूर्णः सरस्वत्या च सदाश्रितः स्वात्मप्र तिष्ठः कदाचिदपि ठोकल्यं नान्वभूत । श्रीगुरोः द्वौ तनयौ तयोज्येंटः गुणज्येष्ठः श्रीप० जगदीशभाशर्मा अस्माकं सतीर्थ्यः श्रतीवसुशीलः सुविनीतः सर्वेषु दर्शनेषु निष्णातः श्रीगुरुणां स्मृति इदानीतनानां चेतस्सु संदधानः श्रीगुरुपीठमेवालङ्करोति इत्यस्माकं पर प्रमोदस्थानम् इतिसंक्षिप्तः गुरुकुलपरिचयः ॥ एष च निबन्धः वाराणस्यां चौखम्बाकाशो संस्कृतग्रन्थमालायां श्रे. ष्टिहरिदासगुप्तात्मजजय कृष्णदासगुप्तमहाशयेन स्वीये विद्याविलास


Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 190