Book Title: Sachitra Saraswati Prasad
Author(s): Kulchandravijay
Publisher: Suparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai

View full book text
Previous | Next

Page 186
________________ दीर्घादोलितमौलिकीलितमणिप्रारब्धनीराजनैः धीरैः पीतरसा निरंतरमसौ वाग् - जृंभतामद्भुता चूडाचन्द्रकलानिरंतरगलत्पीयूषबिंदुश्रिया, संदेहोचितमक्षसूत्र वलयं या बिभ्रती निर्भरम् । अंतर्मंत्रमयं स्वमेव जपसि प्रत्यक्षवृत्यक्षरं, सा त्वं दक्षिणपाणिनांबवितर श्रेयांसि भूयांसि मे बवा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छवि, श्रेणिश्रीसुभगं भविष्णु सततं व्याजृंभमाणें बुजे । दीव्यन्तीमधिवाम जानुरुचिरं न्यस्तेन हस्तेन तां, नित्यं पुस्तकधारणप्रणयिनीं सेवे गिरामीश्वरीम् तन्मे विश्वपथीनपीनविलसन्निस्सीमसारस्वत, श्रोतवीचिविचित्रभंगसुभगा विभ्राजतां भारती । यामाकर्ण्य विघूर्ण्यमानमनसः प्रेंखोलितै मौलिभि, मलद्धि नयनांचलैः सुमनसो निंदेयुरिंदोः कलाम् आदौ वाग्भवमिंदु बिंदु मधुरं मां ते च कामाक्षरं, योगान्ते कषयो स्तृतीयमिलिते बीजत्रयं ध्यायताम् । सार्द्ध मातृकया विलोमविषयं संधाय बंधच्छिदा, वाचांतर्गतया महेश्वरि ! मया मात्राशतं जप्यते तत्सारस्वतसार्वभौमपदवी सद्यो मम द्योततां, यत्राज्ञाविहितै महाकविशतैः स्फितां गिरंचुंबताम् । चैत्रोन्मीलितकेलिकोकिलकुहू-कारावतारांचित, श्लाघासंचितपंचमश्रुति समाहारोऽपि भारोपमः वाग्बीजं भुवनेश्वरी वद वदेत्युच्चार्य वाग्वादिनी, स्वाहा वर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् । वीणा पुस्तकमसूत्रवलयं व्याजृंभमंभोरुहं, बिभ्राणमरुणांशुभिः करतलैराविर्भवद्विभ्रमाम् तन्मातः कृपया तरंगयतरां विद्याधिपत्यं मयि, ज्योत्सनासौरभचारुकीर्तिरचना सेव्यैकसिंहासनम् । कालाज्ञादिशिवावसानभुवनप्राग्भारकुक्षिंभरि, प्रज्ञांतः परिपाकपीवरपरानंदप्रतिष्ठास्पदम् लेखाभिस्तुहिनद्युतेरिवकृतं वाग्बीजमुच्चैः स्फुरत्, ताराकारकरालबिंदुपरितो माया त्रिधा वेष्टितम् । पूर्णेदोरुदरे तदेतदखिलं पीयूषगौराक्षरं, श्रोतः संभ्रमसंभृतं स्मरति यो जिह्वांचले निश्चलः तस्य त्वत्करुणाकटाक्षकणिका संक्रान्ति मात्रादपि, स्वांते: शांतिमुपैति दीर्घजडताजाग्रद्विकाराग्रणी । तस्मादाशु जगत्त्रयाद्भूतरसाद्वैतप्रतीतिप्रदं, सौरभ्यं परमभ्युदेति वदनाम्भोजे गिरां विभ्रमैः Jain Education International ॥१३॥ ।। १४ ।। ।।१५।। ||१६|| ॥१७॥ ।। १८ ।। ॥१९॥ 112011 ॥२१॥ ।।२२।। आद्य मौलिरथापरो मुखमि ई नेत्रे च कर्णावुभौ, नाशावंश पुटे ऋ ॠ तदनुजौ वर्णौ कपोलद्वयम् । दंताश्चोर्ध्वमधस्तयोऽष्ठ युगलं सन्ध्यक्षराणि क्रमात्, जिह्वामूलमुदग्रबिंदुरपरो ग्रीवा विसर्गी स्वरः कादि दक्षिणतो भुजस्तदपरो वर्गश्च वामोभुजः, ष्टादि स्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ । वंशः पृष्ठभुवोथनाभिहृदये बादित्रयं धातवो, याद्याः सप्त समीरणश्च सपरः क्षः क्रोध इत्यम्बिके ! एवं वर्णमयं वपुस्तव शिवे लोकत्रयं व्यापकं, योऽहं भावनया भजत्यवयवेष्वारोपितरक्षरैः । मूर्तीभूय दिनावसानकमलाकारैः शिरस्थायिभिः, तं विद्याः समुपासते करतलैर्दृष्टि प्रसादोत्सुकाः ये जानन्ति जपन्ति संततमभि ध्यायन्ति गायन्ति वा, तेषामास्यमुपास्यते मृदुपदन्यासै विलासै गिराम् । किं च क्रीडति भूर्भुवः स्वरभितः श्रीचंदनस्यंदिनी, कीर्तिकार्तिकरात्रिकैरवसभासौभाग्यशोभाकरी मायाबीजविदर्भितं पुनरिदं श्रीकूर्मचक्रोदितं, दीपाम्नायविदो जपन्ति खलु ये तेषां नरेन्द्राः सदा । सेवन्ते चरणौ कीरिटवलभीविश्रान्तरत्नांकुर, - ज्योत्सनामेदुरमेदिनीतलरजोमिश्रांगरागश्रियः श्रीबीजं सकलाक्षरादिषु पुनः क्रोधाक्षरान्ते भवे, देवं यो भजतेऽम्ब ते तनुमिमां तस्याग्रतो जाग्रती । लक्ष्मी: सिंधुरदानगंधलहरी लोभांधपुष्पन्धय-, श्रेणीबंधुरश्रृंखला - नियमितेवापैति मैव क्वचित् यस्त्वां विद्रुमपल्लव द्रवमयीं लेखामिवालोहिता, मात्मानं परितः स्फुरत्त्रिवलयां मायामभिध्यायति । तस्मै निंदितचंदनेन्दुकदलीकांतारहार- स्रजो, निःश्वासभ्रमबाष्पदाहगहना मूर्च्छन्ति तास्ताः स्त्रियः मातः श्रीभगमालिनीत्यभिधया दिव्यागमोत्तंसितां, त्वामानन्दमयीमनुस्मरति य स्तन्नामवामभ्रुवः । बाहुस्वस्तिकपीडितैः स्तनतटै दैन्योचितैश्चाटुभिः, नीरन्यैः पुलकांकितै र्मुकुलितै र्ध्यायन्ति नेत्रांचलैः यस्त्वां ध्यायति रागसागरतरत्सिंदुरनौकांतर, स्वैरोज्जागरपद्मरागनलिनीपुष्पासनाध्यासिनीम् । बालादित्यसयत्नरत्नरचितप्रत्यंगभूषारुचि, श्रेणीसंमिलितांगरागरचना स्तस्य स्मरन्त्यंगनाः कर्पूरं कुमुदाकरं कमलिनीपत्रं कलाकौतुकं, कूजत्कोकिलकामिनीकुलकुद्दू कल्लोलकोलाहलम् । १२६ For Private & Personal Use Only ||२३|| ।।२४।। ||२५|| ||२६|| ।।२७।। ||२८|| ।।२९।। ||३०|| ।। ३१ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300