________________
दीर्घादोलितमौलिकीलितमणिप्रारब्धनीराजनैः धीरैः पीतरसा निरंतरमसौ वाग् - जृंभतामद्भुता चूडाचन्द्रकलानिरंतरगलत्पीयूषबिंदुश्रिया, संदेहोचितमक्षसूत्र वलयं या बिभ्रती निर्भरम् । अंतर्मंत्रमयं स्वमेव जपसि प्रत्यक्षवृत्यक्षरं, सा त्वं दक्षिणपाणिनांबवितर श्रेयांसि भूयांसि मे बवा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छवि, श्रेणिश्रीसुभगं भविष्णु सततं व्याजृंभमाणें बुजे । दीव्यन्तीमधिवाम जानुरुचिरं न्यस्तेन हस्तेन तां, नित्यं पुस्तकधारणप्रणयिनीं सेवे गिरामीश्वरीम् तन्मे विश्वपथीनपीनविलसन्निस्सीमसारस्वत,
श्रोतवीचिविचित्रभंगसुभगा विभ्राजतां भारती । यामाकर्ण्य विघूर्ण्यमानमनसः प्रेंखोलितै मौलिभि, मलद्धि नयनांचलैः सुमनसो निंदेयुरिंदोः कलाम् आदौ वाग्भवमिंदु बिंदु मधुरं मां ते च कामाक्षरं, योगान्ते कषयो स्तृतीयमिलिते बीजत्रयं ध्यायताम् । सार्द्ध मातृकया विलोमविषयं संधाय बंधच्छिदा, वाचांतर्गतया महेश्वरि ! मया मात्राशतं जप्यते तत्सारस्वतसार्वभौमपदवी सद्यो मम द्योततां, यत्राज्ञाविहितै महाकविशतैः स्फितां गिरंचुंबताम् । चैत्रोन्मीलितकेलिकोकिलकुहू-कारावतारांचित, श्लाघासंचितपंचमश्रुति समाहारोऽपि भारोपमः
वाग्बीजं भुवनेश्वरी वद वदेत्युच्चार्य वाग्वादिनी, स्वाहा वर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् । वीणा पुस्तकमसूत्रवलयं व्याजृंभमंभोरुहं, बिभ्राणमरुणांशुभिः करतलैराविर्भवद्विभ्रमाम् तन्मातः कृपया तरंगयतरां विद्याधिपत्यं मयि, ज्योत्सनासौरभचारुकीर्तिरचना सेव्यैकसिंहासनम् । कालाज्ञादिशिवावसानभुवनप्राग्भारकुक्षिंभरि, प्रज्ञांतः परिपाकपीवरपरानंदप्रतिष्ठास्पदम्
लेखाभिस्तुहिनद्युतेरिवकृतं वाग्बीजमुच्चैः स्फुरत्, ताराकारकरालबिंदुपरितो माया त्रिधा वेष्टितम् । पूर्णेदोरुदरे तदेतदखिलं पीयूषगौराक्षरं, श्रोतः संभ्रमसंभृतं स्मरति यो जिह्वांचले निश्चलः तस्य त्वत्करुणाकटाक्षकणिका संक्रान्ति मात्रादपि, स्वांते: शांतिमुपैति दीर्घजडताजाग्रद्विकाराग्रणी । तस्मादाशु जगत्त्रयाद्भूतरसाद्वैतप्रतीतिप्रदं, सौरभ्यं परमभ्युदेति वदनाम्भोजे गिरां विभ्रमैः
Jain Education International
॥१३॥
।। १४ ।।
।।१५।।
||१६||
॥१७॥
।। १८ ।।
॥१९॥
112011
॥२१॥
।।२२।।
आद्य मौलिरथापरो मुखमि ई नेत्रे च कर्णावुभौ, नाशावंश पुटे ऋ ॠ तदनुजौ वर्णौ कपोलद्वयम् । दंताश्चोर्ध्वमधस्तयोऽष्ठ युगलं सन्ध्यक्षराणि क्रमात्, जिह्वामूलमुदग्रबिंदुरपरो ग्रीवा विसर्गी स्वरः कादि दक्षिणतो भुजस्तदपरो वर्गश्च वामोभुजः, ष्टादि स्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ । वंशः पृष्ठभुवोथनाभिहृदये बादित्रयं धातवो, याद्याः सप्त समीरणश्च सपरः क्षः क्रोध इत्यम्बिके ! एवं वर्णमयं वपुस्तव शिवे लोकत्रयं व्यापकं, योऽहं भावनया भजत्यवयवेष्वारोपितरक्षरैः । मूर्तीभूय दिनावसानकमलाकारैः शिरस्थायिभिः, तं विद्याः समुपासते करतलैर्दृष्टि प्रसादोत्सुकाः ये जानन्ति जपन्ति संततमभि ध्यायन्ति गायन्ति वा, तेषामास्यमुपास्यते मृदुपदन्यासै विलासै गिराम् । किं च क्रीडति भूर्भुवः स्वरभितः श्रीचंदनस्यंदिनी, कीर्तिकार्तिकरात्रिकैरवसभासौभाग्यशोभाकरी मायाबीजविदर्भितं पुनरिदं श्रीकूर्मचक्रोदितं, दीपाम्नायविदो जपन्ति खलु ये तेषां नरेन्द्राः सदा । सेवन्ते चरणौ कीरिटवलभीविश्रान्तरत्नांकुर, - ज्योत्सनामेदुरमेदिनीतलरजोमिश्रांगरागश्रियः श्रीबीजं सकलाक्षरादिषु पुनः क्रोधाक्षरान्ते भवे, देवं यो भजतेऽम्ब ते तनुमिमां तस्याग्रतो जाग्रती । लक्ष्मी: सिंधुरदानगंधलहरी लोभांधपुष्पन्धय-, श्रेणीबंधुरश्रृंखला - नियमितेवापैति मैव क्वचित् यस्त्वां विद्रुमपल्लव द्रवमयीं लेखामिवालोहिता, मात्मानं परितः स्फुरत्त्रिवलयां मायामभिध्यायति । तस्मै निंदितचंदनेन्दुकदलीकांतारहार- स्रजो, निःश्वासभ्रमबाष्पदाहगहना मूर्च्छन्ति तास्ताः स्त्रियः मातः श्रीभगमालिनीत्यभिधया दिव्यागमोत्तंसितां, त्वामानन्दमयीमनुस्मरति य स्तन्नामवामभ्रुवः । बाहुस्वस्तिकपीडितैः स्तनतटै दैन्योचितैश्चाटुभिः, नीरन्यैः पुलकांकितै र्मुकुलितै र्ध्यायन्ति नेत्रांचलैः यस्त्वां ध्यायति रागसागरतरत्सिंदुरनौकांतर, स्वैरोज्जागरपद्मरागनलिनीपुष्पासनाध्यासिनीम् । बालादित्यसयत्नरत्नरचितप्रत्यंगभूषारुचि,
श्रेणीसंमिलितांगरागरचना स्तस्य स्मरन्त्यंगनाः कर्पूरं कुमुदाकरं कमलिनीपत्रं कलाकौतुकं, कूजत्कोकिलकामिनीकुलकुद्दू कल्लोलकोलाहलम् ।
१२६
For Private & Personal Use Only
||२३||
।।२४।।
||२५||
||२६||
।।२७।।
||२८||
।।२९।।
||३०||
।। ३१ ।।
www.jainelibrary.org