Book Title: Sachitra Saraswati Prasad
Author(s): Kulchandravijay
Publisher: Suparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai

View full book text
Previous | Next

Page 282
________________ ॐ श्रुतदेवी वसुधारी महावृष्टिनिपातनी वसु स्वाहा। मूल हृदय ॐवसुधारे सर्वार्थसाधने साधये २ उद्धर २ रक्ष २ सर्वानिधियंत्रं वउच चट द्वटट वटट दंडं स्वाहा। परम हृदय ॐ नमो श्री श्रुतदेवी भगवत्ये आर्य लोवडिके अथाजिनासं २ रक्षणी फहस्ते दीवहस्ते धनदेवरदेशद्ध विशुद्ध शिवंकरी शांतिकरी भयनासनी भयदुषणी सर्वदुष्टान् भंजय २ स्थंभय २ मम श्रमण संघ शांतिपुष्टी कुरु कुरु स्वाहा। उपसर्गा क्षयंकारी छेदंती विघ्नवल्लरी। ददाति सर्वदा सिद्धि नमोऽस्तु कल्याणकारिणी ।। सर्वमंगलमांगल्यं सर्वकल्याणकारणं। प्रधानं सर्वधर्माणां जैनं जयति शासनम् ॥१॥ इति मन्त्रगर्भित-श्रुतदेवता-स्तोत्रं सम्पूर्णम् बभूव मूक-वत्सोऽपि, सिद्धान्तम् कर्तुमक्षमः । तदा जगाम भगवान्, आत्मा श्रीकृष्ण ईश्वरः ॥१०॥ उवाच स च तां स्तौहि, वाणीमिष्टां प्रजा-पते! सच तुष्टाव तां ब्रह्मा, चाज्ञया परमात्मनः ॥११।। चकार तत्-प्रसादेन, तदा सिद्धान्तमुत्तमम् । यदाऽप्यनन्तं पप्रच्छ, ज्ञानमेकं वसुन्धरा ।।१२।। बभूव मूक-वत्सोऽपि, सिद्धान्तम् कर्तुमक्षमः। तदा तां स च तुष्टाव, सन्त्रस्त कश्यपाज्ञया ।।१३।। ततश्चकार सिद्धान्तम्, निर्मलं भ्रम-भञ्जनम् । व्यास: पुराण-सूत्रं च, पप्रच्छ वाल्मीकिं यदा ॥१४॥ मौनी-भूतश्च संस्मार, तामेव जगदम्बिकाम् । तदा चकार सिद्धान्तम्, तद् वरेण मुनीश्वरः ॥१५॥ सम्प्राप्य निर्मलं ज्ञानं, भ्रमान्ध्य-ध्वंस-दीपकम् । पुराण-सूत्रं श्रुत्वा च, व्यासः कृष्ण-कुलोद्भवः ॥१६।। तां शिवां वेददध्यौ च, शत-वर्षं च पुष्करे। तदा त्वत्तो वरं प्राप्य, सत्कवीन्द्रो बभूव ह ||१७|| तदा वेद-विभागं च, पुराणं च चकार सः । यदा महेन्द्र: पप्रच्छ, तत्व-ज्ञानं सदा-शिवम् ॥१८।। क्षणं तामेव सञ्चिन्त्य, तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्द-शास्त्रं च, महेन्द्रश्च बृहस्पतिम् ||१९|| दिव्यं वर्ष-सहस्त्रं च, स त्वां दध्यौ च पुष्करे। तदा त्वत्तो वरम् प्राप्य, दिव्य-वर्ष-सहस्रकम् ॥२०॥ उवाच शब्द-शास्त्रं च, तदर्थं च सुरेश्वरम्। अध्यापिताश्च ये शिष्याः, पैरधीतं मुनीश्वरैः ॥२१॥ ते च तां परि-सञ्चिन्त्य, प्रवर्तन्ते सुरेश्वरीम्। त्वं संस्तुता पूजिता च, मुनीन्द्रैः मनु-मानवैः ॥२२॥ दैत्येन्द्रैश्च सुरैश्चापि, ब्रह्म-विष्णु-शिवादिभिः । जडी-भूतः सहस्त्रास्यः, पञ्च-वक्त्रश्चतुर्मुखः ॥२३॥ यां स्तोतुं किमहं स्तौमि, तामेकास्येन मानवः । इत्युक्त्वा याज्ञवल्क्यश्च, भक्ति-नम्रात्म-कन्धरः ॥२४।। प्रणनाम निराहारो, रुरोद च मुहर्मुहुः।। ज्योति-रूपा महा-माया, तेन दृष्टाऽप्युवाच तम् ॥२५।। स कवीन्द्रो भवेत्युक्त्वा, वैकुण्ठं च जगाम ह। ___ याज्ञवल्क्य -कृतम् वाणी, स्तोत्रमेतत् तु य: पठेत् ॥२६।। स कवीन्द्रो महा-वाग्मी, बृहस्पति-समो भवेत्। ___महा-मूर्खश्च दुर्बुद्धिः, वर्षमेकं यदा पठेत् ॥२७॥ स पण्डितश्च मेधावी, सु-कवीन्द्रो भवेद् ध्रुवम् ॥२८॥ (श्रीमद्-देवी-भागवत, अ०६-५) सरस्वती महा-स्तोत्रम् । (प्रस्तुत 'सरस्वती महा-स्तोत्र' का एक वर्ष तक पाठ करने से मूर्ख व्यक्ति की भी मूर्खता दूर हो जाती है। नित्य-पाठ करने से पाठ-कर्ता मेधावी हो जाता है। यह महर्षि याज्ञवल्क्य का अनुभूत प्रयोग है - सं०) कृपां कुरु जगन्मातर्मामेवं हत-तेजसम्। गुरु-शापात् स्मृति-भ्रष्टं, विद्या-हीनं च दुःखितम् ॥१॥ ज्ञानं देहि स्मृति विद्याम्, शक्तिं शिष्य-प्रबोधिनीम् । ग्रन्थ-कर्तृत्व-शक्तिं च, सु-शिष्यं सु-प्रतिष्ठितम् ॥२॥ प्रतिभा सत्-सभायां च, विचार-क्षमतां शुभाम् । लप्तं सर्वं दैव-योगात्, नवी-भूतम् पुनः कुरु ॥३॥ यथांकुंर भस्मनि च, करोति देवता पुनः । ब्रह्म-स्वरूपा परमा, ज्योति-रूपा सनातनी ॥४॥ सर्व-विद्याधि-देवी या, तस्यै वाण्यै नमो नमः। ___ विसर्ग-बिन्दु-मात्रासु, यदधिष्ठानमेव च । ॥५॥ तदधिष्ठात्री या देवी, तस्यै नीत्यै नमो नमः । व्याख्या-स्वरूपा सा देवी, व्याख्याऽधिष्ठात्री रूपिणी।।६।। यया विना प्रसंख्या-वान्, संख्यां कर्तुं न शक्यते। काल-संख्या-स्वरूपा या, तस्यै देव्यै नमो नमः ॥७॥ भ्रम-सिद्धान्त-रूपा या, तस्यै देव्यै नमो नमः । स्मृति-शक्ति-ज्ञान-शक्ति-बुद्धि-शक्ति-स्वरूपिणी ॥८॥ प्रतिभा-कल्पना-शक्तिः, या च तस्यै नमो नमः । सनत्कुमारो ब्रह्माणम्, ज्ञानं पप्रच्छ यत्र वै ॥९॥ पातम् २०८ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300