________________
.
१२० चतुरङ्गलक्षण कर्मकीर्तनम् ।
[८. १७ . (टि.) परोपकारेत्यादि । केवलेति विमलकेवलप्रत्यक्षीकृतयथावस्थिततात्त्विकसमस्तवस्तुत्वेन । प्रारम्भकेत्यादि अनुमितिप्रारम्भकम् ॥१४॥ चतुरङ्गो वाद इत्युक्तम् , कानि पुनश्चत्वार्यङ्गानि ? इत्याहुः
वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥१५॥ स्पष्टम् ॥१५॥ વાદ ચાર અંગવાળે છે એમ કહ્યું, તે તે ચાર અંગ ક્યાં ? તેનું
વર્ણન–
વાદી, પ્રતિવાદી, સભ્ય અને સભાપતિ એમ વાદના આ ચાર અંગે જાણવાં.
अथैतेषां लक्षणं कर्म च कीर्तयन्ति - प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१६॥
३१ यौ तौ प्रारम्भक-प्रत्यारम्भको पूर्वमुक्ती, तावेव परस्परं वादि-प्रतिवादिनौ व्यपदिश्येते; यथा द्वौ नियुध्यमानौ मल्लप्रतिमल्लाविति । १६॥ વાદના આ ચાર અંગોનું લક્ષણે અને તેનું કાર્ય કહેવામાં આવે છે.
મલ્લ-પ્રતિમલ્લના ન્યાયથી પ્રારંભક અને પ્રત્યારંભક અનુક્રમે વાદી અને પ્રતિવાદી કહેવાય છે. ૧૬.
$1 કુશળતાપૂર્વક કુસ્તી કરનારા બે પુરુષમાંથી કુસ્તી માટે આહાન કરનાર મલ, અને પ્રતીકાર કરનાર પ્રતિમલ કહેવાય છે. તેમ વાદમાં પણ વાદને પ્રારંભિક વાદી અને પ્રત્યારંભક પ્રતિવાદી કહેવાય છે. __ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥१७॥
१ वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वितयमपि कर्तव्यम् , . एकतरस्यापि विरहे तत्त्वनिर्णयानुत्पत्तेः । अत एव स्वपक्षेत्यादिद्विवचनेनोपक्रम्यापि कर्मेत्येकवचनम् , यथेन्धनध्मानाधिश्रयणादीनामन्यतमस्याप्यपाये विक्लित्तेरनिष्पत्तेः सर्वेषामपि पाक इत्येकतया व्यपदेश इति । स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोः समासेन निर्देशः कचिदेकप्रयत्ननिष्पन्नताप्रत्यायनार्थम् । यदा हि निवृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीयकक्षायां प्रतिवादी न किञ्चिद् वदति, तदानी प्रथमकक्षायां स्वदर्शनानुसारेण सत्प्रमाणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः; यदा वा विरुद्धत्वादिकमुद्भावयेत् , तदा परपक्षप्रतिक्षेपः एव स्वपक्षसिद्धिः; इति समासेऽपि तुल्यकक्षताप्रदर्शनार्थमितरेतरयोगद्वन्द्वः । यथा स्वपक्षः स्थाप्यते तथा परपक्षः प्रतिक्षेप्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपक्षः स्थाप्यः, न तु सर्वत्र पारिशेष्यात परितोपिणा भवितव्यम् ।