Book Title: Prashamrati
Author(s):
Publisher:
View full book text
________________ [96-104] प्रशमरतिः संपर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् / लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः॥ ए६॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि / केवलमुन्मादः वहृदयस्य संसारवृद्धिश्च // 7 // जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह / जात्यादिहीनतां परभवे च निःसंशयं लभते // 9 // सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना / आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः॥ 99 // परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म / नीचैर्गोत्रं प्रतिभवमनेकभवकोटीदुर्मोचम् // 10 // कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम् / तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् // 11 // देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् / दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति // 102 // अपरिगणितगुणदोषःस्वपरोभयबाधको भवति यस्मात्। पञ्चेन्द्रियबलविबलो रागद्वेषोदयनिबाहः॥ 103 // तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च / शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् // 10 // तत्कथमनिष्ट विषयाभिकांक्षिणा भोगिना२ वियोगो वै / 1 A, प्रतिभयं. 2 Var. H कांक्षिणां भोगिनां.

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27