Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 10
________________ अष्टौ मदस्थानानि. [86-95] निश्चयविनाशर्मिणि रूपे मदकारणं किं स्यात् // 6 // बलसमुदितो ऽपि यस्मानरः क्षणेन विबलत्वमुपयाति। बलहिनो ऽपि च बलवान संस्कारवशात्पुनर्भवति॥८॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् / मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि // 7 // उदयोपशमनिमितौ लाभालाभावनित्यको मत्वा / नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः // 7 // परशक्त्यभिप्रसादात्मकेन किंचिदुपयोगयोग्येन / विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति // 9 // ग्रहणोद्ग्राहणनवकृतिविचारणावधारणायेषु / बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु // 91 // पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् / श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति // 92 / / द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य / कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन // 93 / / गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् / तं वाल्लभ्यकविगमे शोकसमुदयः परामशति / / 94 // माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैव / श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः // 95 / / 1 A. उपभोग.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27