Book Title: Prashamrati
Author(s):
Publisher:
View full book text
________________ [190-197] प्रशमरतिः 1 जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः / लक्षणतो विज्ञेया द्वित्रिचतुःपञ्चषभेदाः / / 190 // विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुनपुंसका ज्ञेयाः। नारकतिर्यग्मानुवदेवाश्चतुर्विधाः प्रोक्ताः॥१५१ / / पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः। क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति? षन्नेदाः // 192 // एवमनेकविधानामेकैको विधिरनन्तपर्यायः / प्रोक्तः स्थित्यवगाहज्ञानदर्शनादिपर्यायैः॥१९३ // सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् / साकारो ऽनाकारश्च सो ऽष्टभेदश्चतुर्धा च // 194 // ज्ञानाज्ञाने पञ्चत्रिविकल्पे सो ऽष्टधातु साकारः। चक्षुरचक्षुरवधिकेवलग्विषयस्त्वनाकारः॥१ए / भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव / औपशमिकः क्षयोत्थः क्षयोपशमजश्व पञ्चैते // 196 / / ते चैकविंशतित्रिदिनवाष्टादशविधाश्च विजेयाः। षष्ठश्च सानिपातिक इत्यन्यः पञ्चदशभेदः / / 197 / / एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः२ सुख दुःखम्। संप्राप्नोतीत्यात्मा सो ऽष्टविकल्पः समासेन // 18 // द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति / A. omite. इति. 2 Var. A. संपद्. 3: H. चैव..

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27