Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy
View full book text
________________
द्वितीयोऽङ्कः ]
रौहिणेयः - कथं समागत एव श्रेष्ठिसुत: ? ।
(ततः प्रविशति तूर्यरवापूरितदिगन्तरालः पतिपत्नीजनसन्मङ्गलोपगीयमानः सर्वाङ्गीणाभरणभूषितः सदशाव्यङ्गवस्त्रावृतः शिरःशिखरोपशोभितोऽश्वाधिरूढो ध्रियमाणमयूरातपत्रः सवधूको वर उभयस्वजनवर्गश्च ।)
रौहिणेयः- अयं तावद्वरः, इयं चास्य वधूः । कौ पुनरस्य पितरौ ? | शबर:- (क) अयं थूलपलंबशलीले सुभद्दाभिहाणे जनगे । इयं च सव्वंगीनप्पसाहनप्पसाधिदा कुंकुमच्छविदभालष्टा मनोलमा मादा । (इति दृष्टिसंज्ञया दर्शयति ।)
रौहिणेयः- किमभिधानः सुतः ? ।
(ख) मनोलथो नाम ।
शबर:
रौहिणेयः - ( वरं विलोक्य)
किञ्च
(नेपथ्ये कलकलस्तूर्यमङ्गलध्वनिश्च)
(क)
(ख)
[ १०८
आकारः स्मरसोदरः शशभृता वक्त्रप्रभा स्पर्धते नीलाम्भोजविजिष्णुनी च नयने कण्ठोऽस्य कम्बुच्छविः । वाच: स्निग्ध[सुधा ] स्मयव्ययकृतः पादौ प्रवालप्रभौ वर्णः स्वर्णसवर्णविभ्रमकरः किं वर्ण्यतेऽयं वरः ? ॥३॥
मौलौ यस्य प्रशस्यस्तिरयति तिमिरं शेखरः स्वर्णभाभिः कण्ठे मुक्ताकलापः किरति दितिगुरोर्मण्डलज्योतिरुच्चैः । प्रातस्त्यादित्यलक्ष्मी क्षिपति मणिरुचा हस्तसूत्रं च हस्ते देहे वस्त्रं क्षिणोति प्रसृमरमहसा कौमुदीं कान्तकान्तिम् ॥४॥
Jain Education International
अयं स्थूलप्रलम्बशरीरः सुभद्राभिधानो जनकः । इयं च सर्वाङ्गीणप्रसाधनप्रसाधिता कुङ्कुमाक्षविदर्भालष्टा (कुङ्कुमलिप्त भालस्थला) मनोरमा माता। मनोरथो नाम ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206