Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 175
________________ १३८ । [प्रबुद्ध रौहिणेय नाटक प्रबन्धः आस्ते । तत्कथङ्कारं पुरि प्रवेशः कार्य : ? कथं वा स्वपितुर्वचनं पालनीयम् ?, मार्गान्तरानुसरणं च ? संप्रति प्रत्यूहः प्रयोजनानाम् । यतः स्तोकं दिनमवसीयते, ततः किमिदानीमनुसतव्यम् ? | (पुनर्विचिन्त्य) आः ! ज्ञातम्, अस्ति कराङ्गुलीभ्यां नीरन्ध्र कर्णरन्ध्रपिधानं प्रधानमौपयिकम् । (इति तथा कृत्वा द्रुततरं परिक्रामति । कियद्भर्मि गत्वा कण्टकभङ्गमभिनीय च) कथमत्यौत्सुक्यगमनात्कण्टकेन क्षितः पादः । भवतु, पुरं गत्वा कण्टकमपनेष्ये। (इति महता कष्टेन कानिचित्पदानि दत्त्वा) अहह ! क्रमात् क्रममपि न शक्नोमि गन्तुम् । नापरः कश्चिदुपायोऽस्ति कण्टकापनयने । (क्षणं विमृश्य) अस्त्येकः कण्टकापनयनोपायः । यदि दन्तैराकृष्यते तदा निःसरति । (इति तथास्थित एव भूमावुपविश्य पादसंमुखं मुखमाधाय दन्तैः कण्टकमाकर्षति । सवैलक्ष्यं मुखमुदञ्च्य सनिर्वेद) कथं दन्तैरप्याकृष्टो न निःसरति कण्टकः । आः ! समागतः सोऽयं विषमो व्याघ्रदुस्तटीन्यायः । कथमुद्धरिष्ये कण्टकम् ? यदि वा भवतु यत्किमपि भवति । न शक्नोमि क्षणमपि कण्टकपीडामधिसोढुम् । (इति कर्णात्करमाकृष्य पीडामभिनयन्नाटयेनोपविष्ट एव कण्टकमपनयति ।) (नेपथ्ये) निःस्वेदाङ्गाः श्रमविरहिता नीरजोऽम्लानमाल्या अस्पृष्टोीवलयचलना निर्निमेषाक्षिरम्याः । शाश्वद्गोगेऽप्यमलवसना विस्त्रगन्धप्रमुक्ता श्चिन्तामात्रोपजनितमनोवाञ्छितार्थाः सुराः स्युः ॥९॥ रौहिणेयः- (ससंभ्रममुत्थाय सनिर्वेदम्) धिग्मामीदृशकुत्सितैकचरितम्लानीकृतस्वान्वयं शश्वद्विष्टपसंचरिष्णुजनक लोकेन्दुयाम्यात्मजम् । अङ्गीकृत्य तथा स्ववतृवचनं तद्भङ्गतः पाप्मना येनैवं हहहा ! मया बहुतरं जैनं वचः शुश्रुवे ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206