Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 182
________________ चतुर्थोऽङ्कः] [१४५ समागच्छामि । (इति क्षुरिकामाकृष्य तन्मध्येन पलायते ।) (सर्वेऽपि सभयमितस्ततः प्रसर्पन्ति ।) पिङ्गल:- रे रे ! कथं पश्यतामपि नश्यति ? । अरे व्याघ्रमुखिप्रमुखाः ! चौरोऽभ्येति तद् गृह्यतां गृह्यतामिति । ____ (सर्वेऽपि तमनुगच्छन्ति ।) रौहिणेयः- (पश्चादभिमुखमवलोक्य स्वगतं) कथं मत्पृष्ठिलग्ना एवागच्छन्त्येते?। तद्यावन्ममाभ्यर्णवर्तिनो भवन्ति तावद्विादुत्क्षिप्तकरणेन प्राकार मुल्लङ्घयामि । (इति तथा करोति ।) व्याघ्रमुख:- (पुरुषैः सह सहसोपसृत्य बहिः सैनिकान् प्रति) रे रे ! झटित्येनं बध्यतां बध्यतां गृह्यतां गृह्यताम् । __ (सर्वोऽपि तं गृहीत्वा बध्नन्ति ।) कीनाश:- अरे ! जीवग्राहं ग्राह्यः । रक्षणीयः सर्वथा शस्त्रघातः । व्याघ्रमुख:- देव ! एष संयम्य धृतोऽस्ति । . कीनाशः- (सहर्ष) अहो ! कौलीनानलप्लुष्टेनापि महामात्यप्रयुक्तप्रपञ्च पय:सिक्तेन चौरग्रहफलैः फलितं पुनर्मत्पुण्यद्रुमेण। (व्याघ्रमुखं प्रति) अरे ! कियती त्रियामा ? । व्याघ्रमुखः- (ऊर्ध्वमवलोक्य) किंचित्कश्मलकांस्यभाजनतुलां धत्ते यथाऽयं शशी ज्योतिश्चक्रमुपाश्नुते दिवि यथा शुष्यत्प्रसूनप्रभाम् । प्रासादेषु यथा घनः प्रसरति प्रातस्त्यतूर्यध्वनिः पूर्वाशाऽपि यथाञ्चते च विभया मन्ये निशा तत्कृशा ॥२५॥ कीनाश:- अरे ! प्रत्यूषं यावत्प्रयत्नतो रक्षणीयः । प्रातर्देवाय दर्शयिष्यामः । __ वयं पुनः क्षणं निद्रासुखमनुभवामः । (इति निष्क्रान्ताः सर्वे ।) ॥ चतुर्थोऽङ्क समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206