Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 195
________________ १५८] शृङ्गारस्मरमन्थराङ्गनततिश्चारीभिरत्यद्भुता निर्यत्कान्तकटाक्षलक्षलहरीव्याक्षिप्तरङ्गाङ्गणाः । [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः उद्वेल्लद्भुजवल्लिकम्पनघना पीनस्तनास्कन्दनैस्तुद्यत्कञ्चकसंधिबन्धनमहो ! नृत्यन्ति देवाङ्गनाः ॥१०॥ अपि च- न्यञ्चत्पञ्चमकाकलीकवचिताः श्रोत्रामृतं गीतयो भावोल्लासविलासिलास्यललितं नेत्रोत्सवः स्वर्गिणाम् । नृत्यं नर्तितष्टबर्हिणकुलो मन्दो मृदङ्गध्वनिः स्पष्टीभूतसमस्त भारतगुणः प्रेक्षाक्षणः कोऽप्यहो ! ॥ ११ ॥ चन्द्रलेखा (सप्रश्रयं) (क) पुन्निक्कलब्भतुहरूवनिरूवणाहि उम्मत्तनित्तुलमहानिलसंपलित्तं । अंगं नियंगसुहसंगसुहारसेणं पाणेस ! पीणय विहित्तु मइ प्पसादं ॥१२॥ पत्रलेखा - (क) तं पुन्नं परिपागमागदमहो ! नीसेससग्गंगणासोहग्गाहिगमे विसेसयपदं संपाविदं संपदं । अच्वत्थं चिरचितिदेहि फलिदं पत्तं पहुंत्तं परं जं जादो तुम मंजु [मंजु] लमहो ! अम्हाण पाणप्पिओ ॥ १३ ॥ ता माणिणीमीणज्झय ! परप्पणयसिणिद्धवयणेहिं सिणेहसणाहहिययाओ संभासेसु अम्हे । (रौहिणेयो विस्मितमनास्तूष्णीमास्ते ।) (क) पुण्यैकलभ्यत्वद्रूपनिरूपणादुन्मत्तनिस्तुलमहानिलसंप्रदीप्तम् । अङ्ग निजाङ्गशुभसङ्गसुधारसेन प्राणेश ! प्रीणय विधाय मयि प्रसादम् ॥ (क) तत्पुण्यं परिपाकमागतमहो ! निश्शेषस्वर्गाङ्गना Jain Education International सौभाग्याधिगमे विशेषकपदं संप्राप्तं सांप्रतम् । अत्यर्थं चिरचिन्तितैः फलितं प्राप्तं प्रभुत्वं परं यज्जातस्त्वं मञ्जुमञ्जुलमहो ! अस्माकं प्राणप्रियः ॥ तन्मानिनीमीनध्वज ! परप्रणयस्निग्धवचनैः स्नेहसनाथहृदयः संभाषयास्मान् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206