Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 199
________________ वागटना १६२] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः प्रतीहार:- भवाभ्यासोन्मीलत्कलुषपटलच्छन्नमनसां स्वभावेनैकेन व्रजति हि नृणां जन्मनि ततः । . परस्त्रीसङ्गान्यद्रविणहरणद्यूतकरण प्रभृत्याचीर्णं यत्कुचरितमपि स्वं कथय तत् ॥२१॥ रौहिणेयः- किमत्रार्थे प्रष्टव्यम् ? । आत्मनैव प्रकटितोऽयमर्थ : । यतः किं कदाचिदारोहति पर्वतशिरः पङ्गः ?, किं वा कुणिनिःसपत्नरत्नाकर तर्तुमलम्भूष्णुः ?, किं वा पापप्रसक्तः प्राणी स्वः प्राप्नोति ? । अपि च पीनोत्तुङ्गघनस्तनस्मयचयस्फाराङ्गवाराङ्गनास्फीतं हाटककोटिकुट्टिमतटं स्वर्वैभवोद्भासितम् ? । यद्येवंविधचेष्टितैः कथमपि प्राणी भवेत्कुत्सितः स्तरिक रम्यविमानमेतदसमं प्राप्नोत्यदश्चिन्त्यताम् ॥२२॥ प्रतीहार:- (सनिर्वेदमपवार्य भरतं प्रति) सचिवसंचितप्रपञ्चैर्मयैवं तर्कितोऽपि न लक्षितोऽस्याभिप्रायः । तन्मन्त्रिणो यथावस्थितं विज्ञप्यते । एष आस्थानोपविष्टेन राज्ञा महामात्यस्तस्कव्यतिकरं जिज्ञासमान आस्ते । (ततः प्रविशति यथानिर्दिष्टो राजा अभयश्च ।) अभयः- (अपवार्य) प्रतीहार ! ज्ञातः किं कश्चिच्चौराभिप्राय: ? । प्रतीहार:- मन्त्रिमण्डलप्रकाण्ड ! निःस्वाननानि यत्पृष्ठे स्फोटितानि सहस्रशः । वित्रस्यति स किं वापि कांस्यतालैः क्रमेलकः ? ॥२३॥ वज्रसारहृदयस्यास्य न किञ्चित्त्वदुपायसितायःसूचिभिभिद्यते । अभय:- प्रपञ्चचतुरोऽप्युच्चैरहमेतेन वञ्चितः । वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन ॥२४॥ राजा- अमात्य ! ज्ञात: केनाप्युपायेन स्तेनः ? । अभयः- देव ! किमत्रार्थे ज्ञेयम् ? । नायं दण्डाह : । यतः भरत: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206