Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy
View full book text
________________
राजा
पञ्चमोऽङ्कः]
[१४८ कीनाशः- देव ! महामात्यप्रयुक्तयुक्तिमाहात्म्येन । सिंहल:- (विहस्य) देव ! भावतायतं त्यक्त्वा कस्यान्यस्येदृशी मन्त्रशक्तिः?।
निस्तापच्छन्नमूर्तिर्व्यसनघनवनप्लोषणे वन्यवह्निनिमन्त्रो यन्त्रतन्त्रौषधिविधिविमुखोऽस्ताञ्जनोऽदृश्यसिद्धः । नियुद्धः शस्त्रबाह्यः श्रमगतिरहितः सैन्यशून्योऽरिघातोऽमात्यस्याचिन्त्यशक्तिर्जगति विजयते कोऽपि बुद्धिप्रपञ्चः ॥९॥ किमद्यापि चिरयत्यमात्यः ? ।
(ततः प्रविशति कुन्तलेनादिश्यमानमार्गोऽभयकुमारः ।) [कुन्तलः-] देव ! सचिवः प्रणमति ।
(अभयकुमारो राजानं प्रणम्योपविशति ।) राजा- अमात्य ! यद्भवता प्रतिज्ञातं तन्निहितं स्वबुद्धिकौशलबलेन ।
प्रचण्डापि सतां बुद्धिर्वैरिणो नयति क्षयम् ।
शीतलोऽपि हिमः किं न भस्मसात्कुरुते तरून् ? ॥१०॥ अभयकुमार:- देव !
तत्किञ्चित्कुरुते प्राणी कार्यं स्वानुमतं यतः । स्वयमेव पतत्युच्चैर्दुस्तरे व्यसनाम्बधौ ॥११॥ दशा कर्षस्यान्तः क्षिपति किमु कश्चित्प्रसभतः ? किमुच्चैस्तत्पाते शलभहतकं प्रेरयति च ? । परं निष्कच्छेदोज्ज्वलचलशिखामोहितमतिः
स्वयं झम्पापाताज्झटिति भजते भस्मपदवीम् ॥१२॥ कीनाश:- देव ! समादिश्यतां तस्करनिग्रहव्यतिकरे । राजा- यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा ।
तस्मान्निग्राह्य एवासौ प्राणितव्यापहारतः ॥१३॥ कीनाशः- [आदेशः] प्रमाणम् । (इत्यभिधाय) पिङ्गल ! एष द्वार एवास्ते
कर्कटाक्षस्तं त्वरितमाकारय ।
किञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206