SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ राजा पञ्चमोऽङ्कः] [१४८ कीनाशः- देव ! महामात्यप्रयुक्तयुक्तिमाहात्म्येन । सिंहल:- (विहस्य) देव ! भावतायतं त्यक्त्वा कस्यान्यस्येदृशी मन्त्रशक्तिः?। निस्तापच्छन्नमूर्तिर्व्यसनघनवनप्लोषणे वन्यवह्निनिमन्त्रो यन्त्रतन्त्रौषधिविधिविमुखोऽस्ताञ्जनोऽदृश्यसिद्धः । नियुद्धः शस्त्रबाह्यः श्रमगतिरहितः सैन्यशून्योऽरिघातोऽमात्यस्याचिन्त्यशक्तिर्जगति विजयते कोऽपि बुद्धिप्रपञ्चः ॥९॥ किमद्यापि चिरयत्यमात्यः ? । (ततः प्रविशति कुन्तलेनादिश्यमानमार्गोऽभयकुमारः ।) [कुन्तलः-] देव ! सचिवः प्रणमति । (अभयकुमारो राजानं प्रणम्योपविशति ।) राजा- अमात्य ! यद्भवता प्रतिज्ञातं तन्निहितं स्वबुद्धिकौशलबलेन । प्रचण्डापि सतां बुद्धिर्वैरिणो नयति क्षयम् । शीतलोऽपि हिमः किं न भस्मसात्कुरुते तरून् ? ॥१०॥ अभयकुमार:- देव ! तत्किञ्चित्कुरुते प्राणी कार्यं स्वानुमतं यतः । स्वयमेव पतत्युच्चैर्दुस्तरे व्यसनाम्बधौ ॥११॥ दशा कर्षस्यान्तः क्षिपति किमु कश्चित्प्रसभतः ? किमुच्चैस्तत्पाते शलभहतकं प्रेरयति च ? । परं निष्कच्छेदोज्ज्वलचलशिखामोहितमतिः स्वयं झम्पापाताज्झटिति भजते भस्मपदवीम् ॥१२॥ कीनाश:- देव ! समादिश्यतां तस्करनिग्रहव्यतिकरे । राजा- यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । तस्मान्निग्राह्य एवासौ प्राणितव्यापहारतः ॥१३॥ कीनाशः- [आदेशः] प्रमाणम् । (इत्यभिधाय) पिङ्गल ! एष द्वार एवास्ते कर्कटाक्षस्तं त्वरितमाकारय । किञ्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy