SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १५० ] (पिङ्गलो निष्क्रम्य सश्वपाकः प्रविशति ।) कर्कटाक्ष : - (प्रणम्य ) (क) भष्टा ! एदे चिट्ठम्ह । कीनाश:- अरे कर्कटाक्ष ! रासभमानय । कर्कटाक्ष:- (ख) एदे लासभं समानेमो । ( इति निष्क्रान्तः 1) अभयकुमार:- (रौहिणेयमवलोक्य) [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः आबद्धोरुयुगो युगायतभुजः पिङ्गस्फुरल्लोचनो रूक्षाग्रोदुषितातिकर्कशकचः क्रूरः करालाकृतिः । वक्रभ्रुकुटिसंपुटप्रकटितान्तः क्रोधबोधोद्धुरः संपूर्णाखिलचौरलक्षणधर चौरोऽयमन्यो नहि ॥१४॥ कीनाश:- अरे ! दुराचारं चौरमेतं कृतवध्यनेपथ्यं पुरपथेषु भ्रमयित्वा शूलाप्रोतं कुरु । श्वपाकः- (क) एवं कलेमो । (तथा कृत्वा तस्करमुत्पाट्य गर्दभमारोपयति ।) कीनाश:- ( तमालोक्य) अहो ! सुरेखवध्यवेषं कारितवानेनं कर्कटाक्षः । चूर्णेनाप्रपदीनभूषिततनुः कृष्णाम्बुलिप्ताननः प्रेङ्खत्केशभरः कुकाहलरवाहूतप्रजावेष्टितः । आरूढः खरमेष रक्तकुसुमस्त्रक्छोभितोरः स्थितिर्जातस्तत्खलु कालरात्रिवनिताभिष्वङ्गरङ्गोत्सुकः ॥१५॥ अभयकुमारः- देव ! किमेतदपर्यालोचितं कर्म ? केयं न्यायबाह्यता ? । केयं दुर्नीतिनिष्ठा ? । केयमयुक्तिप्रतिष्ठा ? | राजा- अमात्य ! दुष्टनिग्रहः शिष्टपालनं च राज्ञां धर्मः । ततस्तदनुवादं विदधतामस्माकं कीदृशी न्यायबाह्यता ? । अभयकुमार:- अलोप्त्रहस्तचौरोऽपि दण्डमर्हति वा न वा ? । इति स्वबुद्धिनैपुण्याद्देव ! सम्यग् विभाव्यताम् ॥१६॥ (क) भर्त्तः ! एते तिष्ठामः । (ख) एते रासभं समानयामः । (क) एवं कुर्मः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy