SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ राजा पञ्चमोऽङ्कः] [ १५१ राजा- (ईषद्विहस्य) अमात्य ! भवानेवात्रार्थे नदीष्णः, तद्विचार्यतां यथावस्थितम् । [अभयकुमार:-] देव ! ईदृशी राजनीतिः, यदि चौर: सलोजहस्तः प्राप्यतेऽथवा स्वयमात्मानमाविष्करोति ततो दण्डार्हो नान्यथेति । राजा- लोखं तावन्नास्ति, ततः किं विधेयम् ? । अभयकुमार:- तर्हि गर्दभादुत्तार्यायमेवापृच्छयताम् । अरे श्वपाक ! उत्तारयैनं रासभात् । (श्वपाकस्तथा करोति ।) (रौहिणेयं प्रति) अरे ! कस्त्वम् ?, कुत्रत्यः ?, कीदृक्षः ?, किमाजीविकः ?, किमर्थमत्रागतोऽसि ? ।। रौहिणेयः- (स्वगत) निश्चितं यत्तात्कालिकमेव प्राणप्रहाणं न संजज्ञे तन्नूनं दैवस्याप्यगम्यः । तनिवेदयामि पूर्वसूत्रितम् (प्रकाशं) देव ! . शालिग्रामवास्तव्यो दुर्गचण्डाभिधः कौटुम्बिकः कृषिजीवी प्रयोजनवशेनेहायातः । ततस्ततः ?। रौहिणेयः- ततः स्वजनाभावाच्चण्डिकायतने शयित आक्षिप्तो रक्षोभिरिवारक्षक पुरुषैः । प्राणभयाद्ग्रामेयकत्वाच्च तथाविधं प्रत्युत्तरमजानन् प्राकारमलङ्घयमहम् । अभयकुमार:- (स्वगतं) [अहो !]कूटैकपाटवं पाटच्चरस्य । राजा- अहो ! महाविस्मयकारी कथारसः । ततस्ततः ? । रौहिणेयः- ततः कथं कथमपि मध्यारक्षविनिर्यातो बाह्यारक्षेषु कैवर्तहस्तस्रस्तो जाले जलचर इवापतम् । राजा- (ससंभ्रमं) ततस्ततः ? । रौहिणेयः- ततो निरपराधोऽपि बद्ध्वा चौर इवाधुना । अहमेभिरिहानीतो नीतिसारं विचारय ॥१७॥ राजा जाल जलप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy