________________
राजा
१५२ ]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः राजा- (अपवार्य) अमात्य ! शालिग्रामवास्तव्योऽहमिति यदसौ ब्रवीति
इतिस्वरूपनिरूपणाय प्रेष्यतां तत्र जाचिकं कमपि पौरुषम् । अभयकुमार:-आदेशः प्रमाणम् । कोऽत्र भोः ! अस्मत्परिजनेषु ? ।
(प्रविश्य) शीघ्रगतिः- (क) एसोऽहमादिसदु सामी ।
__(अभयः शीघ्रगतेः कर्णे एवमेव ।) शीघ्रगतिः- (ख) एस सिग्घमागमिस्सामि (इति निष्क्रान्तः ।) रौहिणेयः- (स्वगत) निश्चितं मच्छुद्धिजिज्ञासया प्रेषितः शालिग्राममसौ ।
ग्रामिकस्त्वग्रेऽपि संकेतं ग्राहितोऽस्ति, अतोऽत्रार्थे न काचित्प्रतिभीः । अरे ! शठोत्तरैर्न किमपि प्राणत्राणम् । ततो यदि जीवितमीहसे
तत्सत्यमावेदय । रौहिणेयः- देव ! यद्यवश्यं देवस्य मत्प्राणितेन प्रयोजनं तद् गृह्णातु । यत्तु
मया विज्ञप्तं तन्नान्यथा । तत्किमेवं मुधा पुनः पुनः प्रश्नेनात्मान
मायासयति देवः ? । कीनाशः- अरे ! यदि सत्यमावेदयसि तदेकवारं जीवन्तं मोचयामि । रौहिणेयः- पुराध्यक्ष ! किमेवमभिदधासिं?। निनिमित्तकौलीनकल्मष-कलङ्कि
तोऽतः परं स्वयमेव मृत्युं स्पृहयालुरहम् । किं चातः परं मम जीवितव्येन ? । निष्कारणकौलीनाग्निप्लुष्टा यन्न मृत्युमञ्चन्ति ।
शङ्के कौलीनोपरि चूला चिरजीवितं तेषाम् ॥१८॥ पिङ्गलः- (सोपहासं) साधु ! भो यथावस्थितवादिन् ! साधु त्वम् । अमात्यः- कस्येदृशी विरागता ?, नूनमनेन निष्कारणकौलीनकल्मषदूषणेन
प्राणितमपि त्यक्ष्यसि ।
(क) एषोऽहमादिशतु स्वामी । (ख) एष शीघ्रमागमिष्यामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org