________________
पञ्चमोऽङ्कः]
[१५३ (सर्वे हसन्ति ।)
(रौहिणेयः सेय॑वैलक्ष्यं तूष्णीमास्ते ।) अभयकुमार:- (नेपथ्याभिमुखवलोक्य) कथं समागत एव शीघ्रगतिः?, अहो ! शीघ्रगामित्वमस्य ।
(ततः प्रविशति शीघ्रगतिः ।) (शीघ्रगतिरमात्यमुपसृत्य अमात्यस्य कर्णे एवमेव ।) अभयकुमार:- हुं ज्ञातम् । व्रज त्वम् ।
(शीघ्रगतिनिष्क्रान्तः ।) राजा- अमात्य ! किं कथितवानयम् ? । अभयकुमार:- (अपवार्य) देव ! शीघ्रगतिपृष्टैामीणैरित्युक्तम्, विद्यतेऽत्र ग्राम
वास्तव्यो दुर्गचण्डः । परं ग्रामान्तरं गतोऽस्ति । राजा- (सशिरःकम्प) अहो ! केषांचिच्चौराणामप्यायतिचिन्तनम् । अमात्य !
किमत्र प्रभूतविचारविस्तरेण ? । तावदयं तस्करः । अमुमर्थं
ब्रह्मापि न विघटयति । अभयकुमार:-देव ! यद्देवपादाः समादिशन्ति तत्तदेव । न शक्या नीतिरुल्लङ्घ
यितुम्। राजा- तर्हि एवं मोक्तुमपि न पार्यते । तथा च यदि कथमप्ययं
करात्प्रच्युतस्तनिश्चितं हनूमानिवाधास्यति समस्तपुरे लङ्कोपप्लवम् ।
तद्यदि केनाप्युपायेन ज्ञात्वा निगृह्यते तत्प्रजासौख्यं भवति । अभयकुमार:-देव ! यद् दुष्प्रापं तदाप्तम् । सांप्रतं च यथा यथा ज्ञास्यते तथा
तथा यतिष्ये । तदत्रार्थे न काचिच्चिन्ता विधेया देवेन । राजा- अमात्य ! यः किल संदर्शितप्राणभयेनापि न ज्ञातः स
कथमन्यैरुपायैर्ज्ञातुं शक्यते ? । अभयकुमार:- देव ! किमिदमादिश्यते ?,
नो मंत्रैर्न घनैर्धनैर्न च वपुःशक्त्या न शस्त्रैः शितैः न क्रोधोद्भुततुण्डताण्डवबलै संख्यसंख्यैरपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org