________________
१४८]
राजा
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः उन्माद्यन्मित्रवामावदनकुमुदिनीचन्द्र विश्वम्भरेन्द्र ! स्वर्णाद्रिर्भात्यदभ्राभ्रककृतभवनान्तःस्फुरद्वीपकल्पः ॥ ( क्षणं स्मरणमभिनीय) अरे ! विशुद्धबुद्धिनदीष्णोऽप्यभयो नाद्याप्यलम्भूष्णुस्तस्करनिग्रहकर्मणि । यदि वा अभिधानतोऽभयः, पुनः कर्मणा सोऽपि सभयः । तन्न राजाज्ञामङ्गीकृत्य भयेन सुखलिप्सया वा स्थातुं शक्यते । तदरे ! समाकारय तं सचिवापसदम् ।
कुन्तल:- आदेश: प्रमाणम् (इति निष्क्रान्त: 1)
(नेपथ्ये डिण्डिमध्वनिः कलकलश्च)
राजा
अरे ! किंनिमित्तोऽयं डिण्डिमध्वनिः कलकलश्च ?
सिंहल :- ( नेपथ्याभिमुखमवलोक्य) देव ! यथाऽयं प्रमोदोत्फुल्लमुखः कीनाशः परापतति, यथा चायं पौरेः परितः परीतस्तस्कर इव कश्चिदभ्येति, तथा जाने प्रमोदजन्माऽयं तुमुलः ।
(ततः प्रविशति हर्षोत्कर्षप्रेङ्खोलितगात्रः कीनाशः करालकरवालकरपुरुषविधृत उभयभुजबद्धो रौहिणेयश्च ।)
(कीनाशः सहर्षं राजानं प्रणम्योपविशति ।)
राजा
( रौहिणेयं विलोक्य) पुरारक्ष ! कोऽयं तस्कर इव बद्ध: ? । कीनाशः- देव ! सोऽयं नागरिकरोग इवाद्य रात्रौ गृहीतस्तस्करः ।
राजा
अरे !
येनामी मम निर्भया भयजुषः शश्वद्धना निर्धनाः सौस्थ्योल्लासवशाद्विकाशवदना [दारिदीना ] ननाः ।
हारं हारमहर्निशं धनचयानित्थं जनाश्चक्रिरे सोऽयं किं पशुवन्नियम्य विधृतः प्रागस्करस्तस्करः ? ॥८॥ कीनाश:- (प्रणम्य ) अथ किम् ? ।
राजा
अरे ! कथं कथं दध्रे ? |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org