SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्क] [१४७ तत्कथय देवः क्वस्ते ? । कलकण्ठः- एष आस्थानोपविष्टोऽस्ति । पिङ्गलः- तर्हि पुरारक्षाय निवेदयामि । कलकण्ठः-अहमपि तस्करव्यतिकरजिज्ञासया सचिवेनादिष्टोऽस्मि । तत्त्वरितं गत्वा सचिवाय विज्ञपयामि । _ (इत्युभावपि निष्क्रान्तौ ।) ॥ विष्कम्भकः ॥ (ततः प्रविशत्यास्थानोपविष्टो राजा सिंहलकुन्तलबन्दिप्रभृतिकश्च परिवारः ।) बन्दी- काष्ठादीर्घदलाकुलं ग्रहगणावश्यायलेशाञ्चितं दिक्कुम्भिभ्रमरावलीवलयितं गङ्गापरागाद्भुतम् । आसीनांशुहिमांशुहंसमिथुनं स्वःशैलकिञ्जल्कभृद् यावत्क्ष्मासरसीरुहं विजयते त्वं देव ! तावज्जय ॥४॥ राजा- (विचिन्त्य सनिर्वेद) येषां शौर्यलता हता न महता दुर्वैरिदावाग्निना न्यायप्रांशुगिरिन च प्रणिहतो दुर्नीतिदम्भोलिना । यैरात्मीययशोभिरिन्दुधवलैर्धात्री पवित्रीकृता मास्ते प्रमदास्पदं त्रिजगतः श्लाध्यास्त एवानिशम् ॥५॥ सिंहल:- देव ! किमिदमादिश्यते ? । कथं भवतामपि न कीर्तनीया कीर्तिः। कश्चित्- (सहर्ष) समुद्भूमिसुतावासः कविराजविराजितः । सदानक्षत्रमालाढ्यः स्वस्तुल्यस्त्वं क्षितिश्वर ! ॥६॥ अपि च- भीमभ्राम्यद्भटेन्द्रोड्डमरसमरभूरङ्गसङ्गप्रभूत प्रोद्भूतोग्रप्रतापप्रसरवशलसत्त्वद्यशोऽन्तर्गतश्रीः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy