SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४६] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः ॥ अथ पञ्चमोऽङ्कः ॥ (ततः प्रविशति कलकण्ठः । कलकण्ठः-(ऊर्ध्वमवलोक्य) कथं विभाता विभावरी ? । अहो ! पूर्वाशामासादयति सहस्रांशुः । तथाहिपादैर्ध्वान्तावकरनिकरं विक्षिपन् धिष्ण्यकीटान् निघ्नन् सन्ध्यारुणरुचिलसच्चारुचूडां दधानः । सिन्दूराभः स्फुरितकिरणप्रौढपिच्छानुदञ्चन् प्राचीनीडाद्विचरति नभोऽहर्पतिस्ताम्रचूडः ॥१॥ (पुनः सनिर्वेद) अहो ! मत्प्रभोर्महामात्यश्रीअभयकुमारस्य पारवश्यवशीकृताशयस्य न प्राप्नुवन्त्यवकाशं चेतसि प्रेयस्योऽपि । अन्यासक्ते जने स्नेहः पारवश्यमथार्थिता । अदातुश्च प्रियालापः कालकूटचतुष्टयी ॥२॥ तद् यदद्य रात्रावपि नासस्तस्करस्तन्न जाने राजा मन्त्रिणः किमप्याधास्यति ? । (नेपथ्ये) लोकास्तिष्ठत निष्ठिताखिलभया रात्रिन्दिवं भ्राम्यत स्वैरं स्वैरमथो पुरे रचयत स्वां धर्मकर्मस्थितिम् । जीवग्राहमहो ! मलिम्लुचपशुः पूर्लोकशोकप्रद स्तैस्तैर्दुर्घटकूटकोटिघटनैरेषोऽद्य बद्ध्वा धृतः ॥३॥ कलकण्ठ:-कथमयं पिङ्गलः सहर्ष व्याहरति ? ।। (ततः प्रविशति पिङ्गलः ।) कलकण्ठः-(तमुपसृत्य ससंभ्रमं) पिङ्गल ! कथं धृतः प्रतिरोधकः ? | पिङ्गलः- (सोल्लास) अत्रार्थेऽपि किं संदेहः ? । धृतः । कलकण्ठः-सांप्रतं तर्हि भवान् व प्रस्थितः ? । पिङ्गल:- पुरारक्षेण देवः क्व तिष्ठति ? इति निरूपणाय प्रेषितोऽस्मि । कलकण्ठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy