Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 192
________________ तथा षष्ठोऽङ्कः] [१५५ ॥ अथ षष्ठोऽङ्कः ॥ (ततः प्रविशति मञ्जीरकप्रतीहारः ।) प्रतीहार:- (विमृश्य) यद्यप्यतिनिन्द्यमदस्तथापि दुःसाध्यवस्तुसंसिद्ध्यै । त्यक्त्वा कैतवमेकं नूनं नान्यत्किमप्यस्ति ॥१॥ बुद्धिः श्रीअभयस्य विश्वहृदयाभिप्रायसंदर्शिनी दस्युः साचिवगूढकैतवगतेदुर्लक्षचेताः पुनः । राजा दुर्गहचौरनिग्रहमहाग्राहोग्रचित्तस्थितिमूढः कार्यविधिस्ततः कथमहो ! सिद्धि समारोक्ष्यति ?॥२॥ यदि वा केयं मम स्वनियोगाभिघाताभिधायिनी परव्यापारचिन्ता?। ततः स्वनियोगमनुतिष्ठामि । (इति परिकामति । पुरोऽवलोक्य) किमयं नाट्याचार्यो भरतः परापतति ? । (ततः प्रविशति भरतः ।) प्रतीहार:- (तमुपसृत्य) सखे ! कथय, शस्तनेऽहनि यदादिष्टममात्येन तन्निखिलमप्यनुष्ठितं भवता ? | भरत:- अथ किम् ? । प्रतीहार:- किं किम् ? । भरतः वारवेश्याङ्गनानां समानलावण्यादिसंपदोपेताः प्रगुणिताश्चन्द्रलेखाद्याश्चतस्रोऽग्रमहिष्यः । तथा शृङ्गारवतीप्रमुखाः पञ्चषा नर्तक्यः । अन्यदपि गायनीवैणिकवैणविकमार्दङ्गिकं सर्वं दिव्यमिव प्रगुणितमास्ते । तथा चायमभिनवः प्रासादस्त्रिदशविमानमिवामात्येन सज्जितोऽस्ति। सांप्रतं भवांश्च क्व प्रस्थितः ? । प्रतीहार:- सचिवेन चन्द्रहासासुराया: समादिष्टोऽस्मि । भरतः- तद् व्रज त्वं स्वप्रयोजनं कुरु । अहमप्यमात्यादिष्टमनुतिष्ठामि । (इत्युभावपि निष्कान्तौ ।) ॥ विष्कम्भकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206