Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy
View full book text
________________
१५४1
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः नाम्भोधिप्लवनेन न प्रभुतया कर्तुं क्षमो यन्नर
स्तन्निस्सीमनदीष्णबुद्धिविभवः कार्यं करोति क्षणात् ॥१९॥ राजा- पुरारक्ष ! एनं निबिडनिगडजडितं कुरु । कीनाश:- पिङ्गल ! निगडान्यानय ।
(पिङ्गलो निष्क्रम्य निगडानि गृहीत्वा प्रविशति ।) (कीनाशो निगडान्यादाय नाट्येन रौहिणेयपादयोः क्षिपति ।) राजा- (भुजबन्धनान्(नि) विमोच्य) सुगुसगुप्तो धार्य : । कीनाशः- (रौहिणेयं प्रति साधिक्षेप) अरे ! अग्रतो भव ।
(रौहिणेयो निगडजडितपादो मन्दं मन्दं परिक्रामति ।) अभयकुमार:- (सविस्मितं)
हर्षस्मेरपुराङ्गनाश्रुतिपुटे कुर्वन् सुधासेचनं हेलोल्लासितकौतुकस्मितदृशां पुंसां मनो मोदयन् । यच्छनिष्कलहस्ततालतुमुलोत्तालार्भकानां मुदं व्युत्तस्थौ बहलश्चलच्चलनयोहञ्जीरहेषारवः ॥२०॥
(नेपथ्ये) दुर्वारप्रसरत्प्रतापनिकरैः पृथ्वीपुरं पूरयन् निःशेषामपि विश्वविस्तृतपरच्छायां शनैः संहरन् । शश्चद्भास्वदखण्डमण्डलधरः स्वामिन्ननन्तोदयो लोकस्यैष भवानिवाम्बरमणिर्मध्यस्थभावं ययौ ॥२१॥ अमात्य ! सांप्रतं मध्याह्नसंध्या [समयः । .....] शयं ज्ञात्वा एनमागस्कारिणं केनाप्युपायेन शीघ्रमस्माकं विज्ञाप्यम् । पुरारक्ष ! महाप्रयत्नेन रक्षणीयोऽयमद्यतनी यामिनीम् । तवजत यूयं निजावसथम् । वयमप्यवश्यकृत्यमाधास्यामः ।
(इति निष्क्रान्ताः सर्वे ।) ॥ पञ्चमोऽङ्कः समाप्तः ॥
राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206