Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 185
________________ १४८] राजा [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः उन्माद्यन्मित्रवामावदनकुमुदिनीचन्द्र विश्वम्भरेन्द्र ! स्वर्णाद्रिर्भात्यदभ्राभ्रककृतभवनान्तःस्फुरद्वीपकल्पः ॥ ( क्षणं स्मरणमभिनीय) अरे ! विशुद्धबुद्धिनदीष्णोऽप्यभयो नाद्याप्यलम्भूष्णुस्तस्करनिग्रहकर्मणि । यदि वा अभिधानतोऽभयः, पुनः कर्मणा सोऽपि सभयः । तन्न राजाज्ञामङ्गीकृत्य भयेन सुखलिप्सया वा स्थातुं शक्यते । तदरे ! समाकारय तं सचिवापसदम् । कुन्तल:- आदेश: प्रमाणम् (इति निष्क्रान्त: 1) (नेपथ्ये डिण्डिमध्वनिः कलकलश्च) राजा अरे ! किंनिमित्तोऽयं डिण्डिमध्वनिः कलकलश्च ? सिंहल :- ( नेपथ्याभिमुखमवलोक्य) देव ! यथाऽयं प्रमोदोत्फुल्लमुखः कीनाशः परापतति, यथा चायं पौरेः परितः परीतस्तस्कर इव कश्चिदभ्येति, तथा जाने प्रमोदजन्माऽयं तुमुलः । (ततः प्रविशति हर्षोत्कर्षप्रेङ्खोलितगात्रः कीनाशः करालकरवालकरपुरुषविधृत उभयभुजबद्धो रौहिणेयश्च ।) (कीनाशः सहर्षं राजानं प्रणम्योपविशति ।) राजा ( रौहिणेयं विलोक्य) पुरारक्ष ! कोऽयं तस्कर इव बद्ध: ? । कीनाशः- देव ! सोऽयं नागरिकरोग इवाद्य रात्रौ गृहीतस्तस्करः । राजा अरे ! येनामी मम निर्भया भयजुषः शश्वद्धना निर्धनाः सौस्थ्योल्लासवशाद्विकाशवदना [दारिदीना ] ननाः । हारं हारमहर्निशं धनचयानित्थं जनाश्चक्रिरे सोऽयं किं पशुवन्नियम्य विधृतः प्रागस्करस्तस्करः ? ॥८॥ कीनाश:- (प्रणम्य ) अथ किम् ? । राजा अरे ! कथं कथं दध्रे ? | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206