________________
१३८ ।
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः आस्ते । तत्कथङ्कारं पुरि प्रवेशः कार्य : ? कथं वा स्वपितुर्वचनं पालनीयम् ?, मार्गान्तरानुसरणं च ? संप्रति प्रत्यूहः प्रयोजनानाम् । यतः स्तोकं दिनमवसीयते, ततः किमिदानीमनुसतव्यम् ? | (पुनर्विचिन्त्य) आः ! ज्ञातम्, अस्ति कराङ्गुलीभ्यां नीरन्ध्र कर्णरन्ध्रपिधानं प्रधानमौपयिकम् । (इति तथा कृत्वा द्रुततरं परिक्रामति । कियद्भर्मि गत्वा कण्टकभङ्गमभिनीय च) कथमत्यौत्सुक्यगमनात्कण्टकेन क्षितः पादः । भवतु, पुरं गत्वा कण्टकमपनेष्ये। (इति महता कष्टेन कानिचित्पदानि दत्त्वा) अहह ! क्रमात् क्रममपि न शक्नोमि गन्तुम् । नापरः कश्चिदुपायोऽस्ति कण्टकापनयने । (क्षणं विमृश्य) अस्त्येकः कण्टकापनयनोपायः । यदि दन्तैराकृष्यते तदा निःसरति । (इति तथास्थित एव भूमावुपविश्य पादसंमुखं मुखमाधाय दन्तैः कण्टकमाकर्षति । सवैलक्ष्यं मुखमुदञ्च्य सनिर्वेद) कथं दन्तैरप्याकृष्टो न निःसरति कण्टकः । आः ! समागतः सोऽयं विषमो व्याघ्रदुस्तटीन्यायः । कथमुद्धरिष्ये कण्टकम् ? यदि वा भवतु यत्किमपि भवति । न शक्नोमि क्षणमपि कण्टकपीडामधिसोढुम् । (इति कर्णात्करमाकृष्य पीडामभिनयन्नाटयेनोपविष्ट एव कण्टकमपनयति ।)
(नेपथ्ये) निःस्वेदाङ्गाः श्रमविरहिता नीरजोऽम्लानमाल्या अस्पृष्टोीवलयचलना निर्निमेषाक्षिरम्याः । शाश्वद्गोगेऽप्यमलवसना विस्त्रगन्धप्रमुक्ता
श्चिन्तामात्रोपजनितमनोवाञ्छितार्थाः सुराः स्युः ॥९॥ रौहिणेयः- (ससंभ्रममुत्थाय सनिर्वेदम्)
धिग्मामीदृशकुत्सितैकचरितम्लानीकृतस्वान्वयं शश्वद्विष्टपसंचरिष्णुजनक लोकेन्दुयाम्यात्मजम् । अङ्गीकृत्य तथा स्ववतृवचनं तद्भङ्गतः पाप्मना येनैवं हहहा ! मया बहुतरं जैनं वचः शुश्रुवे ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org