SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्क] [१3८ तद्यावत्पुनः शृणोमि तावदितस्त्वरिततरमपसर्पामि (इति पुनः कर्णी पिधाय त्वरिततरं पुरप्रवेशं नाटयति । पुरोऽवलोक्य साशङ्क) कथमयमभयकुमारः कीनाशेन समं किमप्यस्मिन् शून्यायतने मंत्रयति? । क्रूरग्रहाविवेतावषडक्षीणं यथाभिमन्त्रयतः । तन्मन्ये नहि कुशलं मच्चिन्तितकार्यसंसिद्धेः ॥११॥ श्रूयते चैतत् । यथा, पौरेरुद्वेजितेन राज्ञाऽऽदिष्टोऽस्ति अभयश्चौरनिग्रहे। प्रतिज्ञातमस्ति चानेन । तद्यद्यनागतमेवायतिचिन्ता विधीयते तत्समीचीनं भवति तद्यावदेतावत्र स्तस्तावदहं शालिग्रामे गत्वा दुर्गचण्डं संकेतयामि । (इति निष्क्रान्तः ।) (यथासमीहितं कार्यमाधाय ततः प्रविशति यथानिर्दिष्टोऽभयकुमारः कीनाशश्च ।) अभयकुमार:- ततश्चतुरङ्गामपि चमूं प्रगुणीकृत्य मोक्तव्या त्वया पुराबहिः । कीनाश:- ततस्ततः ? । अभयः- यदान्तर्विशेत्तस्करस्तदा चदुर्दिक्षु पत्तनं बहिर्वेष्टयः । कीनाश:- ततः किं विधेयम् ? । अभयः- ततोऽन्तःप्रविष्टस्त्वत्पुंभिस्त्रासितो विधुदुत्क्षिप्तकिरणेन वप्रमुल्लङ्घयन् स्वयमेव पतिष्यति कुरङ्ग इव वागुरायां बहिःसैन्ये । कीनाश:- (सशिरःकम्पं) अहह ! दीर्घदर्शित्वममात्यस्य । ततस्ततः ? । अभयः- ततः प्रतिभूभ्यामिव निवपादाभ्यामानीतो ग्राह्यः स दस्युपांशुर्नस्ते पदातिभिः(?) । कीनाश:- (सहर्ष) निश्चितं धृत एव भवद्धटितदुर्घटकूटघट्टितः स दस्युपशुः । अहो ! महबुद्धिकौशलममात्यस्य । यदि वा किमत्रोच्यते ?, कार्यसिद्धिविनार्थेन विनास्त्रैविषतां वधः । अचिन्त्यमहिमा कोऽपि प्रपञ्चो धीमतामहो ! ॥१२॥ Jain Education International For Private & Personal Use Only. www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy