________________
१४०]
अपि च
अभय:
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः
प्रभुत्वं न्यायसंपन्नं सदा दानाद्भुताः श्रियः । शौर्यं सद्बुद्धिसंयुक्तं दुर्लभं त्रयमप्यदः ॥ १३॥ तच्च महामात्यं हिरुक् कस्यान्यस्य ? । (किञ्चिद्विहस्य) अहो ! दाण्डपाशिकप्रकाण्ड ! स्वः शैलं सकलं ग्रसे विघटये तं वज्रिणं स्वर्गतः पाथोधि परिशोषये रविशशिज्योतिः परं संहरे ।
पातालाद्भुजगाधिपस्फुटफणारत्नावलीरानये मद्बुद्धेः कियदेतदद्भुतमहो ! चौराधमस्य ग्रहः ? ॥१४॥
तत्त्वयाऽस्मिन्नर्थे प्रयत्नपरेण भाव्यम् । वयमपि श्रीश्रेणिकेन्द्रक्रमाम्भोजसपर्याविधिमाधास्यामः । ( इति निष्क्रान्तः ।)
कीनाश:- दुःखग्राह्यः खलु मलिम्लुचः । तथा तद्ग्रहे कदाचित्प्राणितस्यापि
संदेहः । यदि वा
रक्षणीया निजाः प्राणा ग्राह्यश्च स मलिम्लुचः । यद्वदाम्रवणं सेव्यं कार्यं च पितृतर्पणम् ॥१५॥ भवतु, कोऽत्र भोः ! अस्मत्परिजनेषु ?
( प्रविश्य व्याघ्रमुखप्रमुखाः पञ्चषा:) पुरुषा:- समादिशत कृत्यादेशम् । एते वयं तिष्ठामः । कीनाश:- अरे ! भवतां कति कतीह कवचमुद्वहमाना: ? । व्याघ्रमुख :- देव ! सर्वेऽपि समादिष्टेऽर्थे समर्था एवास्महे । ( कीनाशो व्याघ्रमुखस्य कर्णे एवमेव ।)
व्याघ्रमुख:- आदेशः प्रमाणम् ।
कीनाश:- एतमर्थं कुर्वद्भिर्भवद्भिर्न काचित्प्राणप्रतिभीः कार्या । व्याघ्रमुख:- (साहङ्कारं ) देव ! किमिदमादिश्यते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org