SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्क] [१४१ यद्यपास्तभयातङ्कास्तं बद्ध्वाद्य मलिम्लुचम् । अर्पयामस्तव स्वामिन् ! तन्नूनं त्वत्पदातयः ॥१६॥ कीनाश:- (पश्चिमाशासंमुखमवलोक्य) भीत इवार्को भूत्या आदाय वसु स्वमस्तगिरिमगमत् । क्षयसमयक्षुभितोदधिसमतमसा पूर्यते च मही ॥१७॥ (पूर्वाशामवलोक्य सविस्मयं) अये ! कथमयं प्राचीपुरन्ध्या रोचनाचन्द्रक इव जगन्मनोरोचनश्चन्द्रोऽप्युद्ययौ । तथाहिस्वर्लक्ष्याः किमु कन्दुकः ? किसु रतिप्रीत्योः परोऽष्टापदः ? किं वा पञ्चशरस्य सीधुचषकं ? किं वात्मदर्शो भुवः ? । किं पीयूषमहीरुहस्य कुसुमं ? नायं न चासौ न वा ऽप्येतन्नैव न चैतदभ्रमुकुटः किन्त्वेष शीतद्युतिः ॥१८॥ किञ्च परागरेणूत्करपिञ्जराङ्गं हंसं समीक्ष्य स्मितकैरवस्थम् । मदीयभायमिति प्रहृष्टा चन्द्रोदये नृत्यति चक्रवाकी ॥१९॥ (व्याघ्रमुखं प्रति) स्थाप्यतां सज्जीकृत्य सेनां चतुर्दिक्षु प्राकारस्य बाह्याभ्यन्तरम् । तन्मध्ये एकस्यां दिशि वयं स्थास्यामः । अन्यासु भवद्भिरप्रमत्तैः स्थेयम् । (सर्वेऽपि यथास्थित्या तिष्ठन्ति ।) कीनाश:- (विमृश्य) अरे पिङ्गल ! समादिशास्मदाज्ञया श्वपाकं कर्कटाक्षम् । यथाऽद्य रात्रौ संचरन् रक्षणीयो नागरिकलोकः । प्राक्प्रहरादूर्ध्वं तस्करः शीघ्रं ज्ञाप्यः । (पिङ्गलो निष्क्रम्य यथादिष्टमाधाय च प्रविशति ।) (नेपथ्ये उच्चैःस्वरम्) (क) भो भो लायगिहलोया ! सव्वे वि सुनेध । जे के वि (क) भोः भोः राजगृहलोकाः ! सर्वेऽपि शृणुत । यः कोऽपि युष्माकमद्य रजन्यां प्रथमप्रहरादूर्ध्वं भ्रमिष्यति तस्य तस्करदण्डं राजा करिष्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy