SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४२] - [प्रबुद्ध रौहिणेय नाटक प्रबन्धः तुज्झाणं अज्ज लयनीए पढमपहलाउ उप्पि भमिस्सदि तस्स तक्कलदंडं लाया कलिस्सदि । कीनाश:- (ऊर्ध्वमवलोक्य) अये ! जातो निशीथः, मध्येऽन्तरिक्षमायातः कलङ्कालंकृतः शशी । स्वर्धन्यां षट्पदालीढं पुण्डरीकमिवाबभौ ॥२०॥ समय इदानीं तस्करागमनस्य । (प्रविश्य) [कर्कटाक्षः-] (नीचैःस्वरं) (ख) एसे समागच्छदि के वि । तक्कले आदु अवले के वि त्ति न याणीयदि । कीनाश:- अरे ! क व्रजतीति प्रच्छन्नीभूय निरूपय । (कर्कटाक्षो निष्क्रान्तः ।) कीनाश:- पिङ्गल ! सावधानीकुरु युद्धधीरान् वीरान् । (पिङ्गलस्तथा करोति ।) (ततः प्रविशति चौर्यचर्योचितनेपथ्यो रौहिणेयः ।) रौहिणेयः- (सनिर्वेद) अपरित्यक्तचौर्यस्य न क्षुण्णं मम किञ्चन । जैनं यच्च श्रुतं वाक्यं केवलं मां दुनोति तत् ॥२१॥ (पुनः सर्वतोऽवलोक्य सहर्ष) अहह ! पौरप्रचाररहितं परितः पुरम् । तथाहिसुप्तो निस्सहनिद्रया परिजनः सर्वत्र घोरायते प्रासादेषु विराममापुरखिलाः प्रेक्षाक्षणा दक्षिणाः । रथ्या नागरिकप्रचाररहिता नारक्षकः कोऽपि त ज्जाग]कमपाकृताखिलजगद्धैर्यं हि चौर्यं मम ॥२२॥ (ख) एष समागच्छति कोऽपि । तस्कर उतापरः कोऽपि इति न ज्ञायते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy