SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्क] [१४३ किञ्च- प्राणास्तित्वविधायी कामं निद्राणनिखिलनगरस्य । श्वास इव मन्दमन्दं केवलमनिलः परिस्फुरति ॥२३॥ यदि वा- यदि जागति ततः किं लोकः ? शेते ततः किमत्रार्थे ? । शक्रस्याप्यहमुच्चैः पवन इवागम्यगतिमहिमा ॥२४॥ तदेतद्राजवेश्म प्रविश्य किमप्यपहरामि (इति तदभिमुखं परिक्रामति ।) (नेपथ्ये) (क) अले ! को तुमं । चिट्ठ इह, निवेदेहि अत्ताणयं । रौहिणेयः- (साशङ्क) कथं जागर्त्यद्यापि याम(मि)कः ? । नूनं दृष्टोऽहमनेन तत् क्षणं चण्डिकायतनमनुसरामि । (इति तत्प्रवेशं नाटयति ।) (प्रविश्य पटाक्षेपेण डङ्गाहस्तः) पुरुषः- (क) अले पिंगला ! कथं निद्दायते चिट्ठए ? । एशे तल्लको पलायदि । पिङ्गलः- (कियत्पुंभिः सह सहसा तमुपसर्प) अरे क्वास्ते क्वास्ते ? । कर्कटाक्षः- (हस्तसंज्ञया दर्शयन्) (ख) एशे गच्छदि । पिङ्गल:- अरे पश्यतामपि वपि गतः ? । तदवलोकय तत्पदपद्धतिम् । कर्कटाक्षः- (कियद्भूमिं गत्वाऽवलोक्य च) (ग) अले ! एसा तक्कलपदपद्धई __कच्चाइणीमंदिलं पविट्ठा । (सर्वेऽपि सहसा दुर्गद्वारमनुसरन्ति ।) (प्रावरच (क) अरे ! कस्त्वं । तिष्ठ इह, निवेदयात्मानम् । (क) अरे पिङ्गल ? कथं निद्राणस्तिष्ठति ! एष तस्करः पलायते । (ख) एष गच्छति । (ग) अरे ! एषा तस्करपदपद्धतिः कात्यायनीमन्दिरं प्रविष्टा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy