SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४४] रौहिणेयः - (स्वगतं ) कथमागता आरक्षकपुरुषाः ? । कर्कटाक्षः - (डङ्गामुत्पाट्य ) (घ) अले ! मज्झे को तुमं ? | ( रौहिणेयः कोणैकदेशे निलीयते) पिङ्गल: [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः (पुरुषान् प्रति) अरे ! अत्यौत्सुक्यतो मध्ये न केनापि प्रवेष्टव्यम् । ( रौहिणेयं प्रति) अरे ! मध्ये कस्त्वम् ? | ( रौहिणेयस्तूष्णीमास्ते ।) कर्कटाक्ष:- (क) अले ! दाले निक्कलेसु । जइ न निक्कलिस्ससि तओ एदाए डंगाए तुमं हणिस्सामि । (इति डङ्गया त्रिचतुः कपाटं घट्टयति ।) रौहिणेयः - ( पुनः स्वगतं ) अहो ! किमतः [ परं ] कार्यम् ? निश्चितं तावद्दैन्यकरणेन पौरुषमेव हार्यते । न वा दैन्यतः किमपि परित्राणम् । तदत्र सुयुद्धं वा सुपलायितं वा न्याय्यम् । पिङ्गलः- अरे ! यदि प्राणितं प्रीणासि तत्प्रकटयात्मानं, येन प्राणत्राणं कुर्मः । नो चेन्निशातसायकैरनेकशस्त्वां निर्भिद्य श्राद्धदेवतातिथिं प्रेषयिष्यामः। रौहिणेयः- (पुनः स्वगतं ) अहो ! शतश: पराजितेभ्य एतेभ्यो दैन्यतः प्राणपरित्राणोपकारः कीदृक् सौहित्यमावहति ? यतः - प्रत्यपकुर्वन् पूर्वं दुनोति चेतः कृतोपकारोऽपि । यत्सुविहितापकारादुपकारः साधिको मृत्युः ॥ २५ ॥ तथैभिः पदातिपांशुभिः सह युद्धमपि न युक्तिमञ्चति । तत्क्षुरिकामाकृष्य सांप्रतं पलायनमेव श्रेयः । पिङ्गलः- अरे ! अन्यजातेः कश्चिदयं न योग्यः सामस्य, किन्तु दण्डस्य, तन्मार्यतामयम् । ( इति सर्वेऽपि शस्त्राण्युत्क्षिपन्ति ।) [ रोहिणेयः - ] ( प्रकाशं साक्षेपं) यदि भवतां पौरुषमस्ति तत्संमुखैर्भाव्यम् । एष (घ) अरे ! मध्ये कस्त्वम् ? | (क) अरे ! कस्त्वं । तिष्ठ इह, निवेदयात्मानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy