________________
चतुर्थोऽङ्कः ] किञ्च
चातुर्यं यदि चौर्यकर्मणि यदि स्वस्याद्भुतं साहसं जङ्घालत्वमनर्गलं यदि यदि द्रव्याभिकाङ्क्षा परम् । यद्युच्चैर्जनवञ्चनाचतुरता यद्युल्बणो विक्रमस्तत्किञ्चित्क्रियते यतो भुवि भवेद्धृद्धिः प्रसिद्धिश्च सा ॥५॥ किं तैर्निस्वजनैर्धनैरपि मुहुर्त्रीडाकरैर्लुण्टितैर्येभ्यो न प्रचुराः श्रियो न गणना वीरेषु कीर्तिर्न च । यद्येकस्य चिरादपि क्षितिपते रामां रमां वा हरे चौर्यावार्यमहामलिम्लुचचमूचक्रे तदास्म्यग्रणीः ॥६॥ किन्तु दुस्संचाराणि राजद्वाराणि । यतः सर्वतोऽप्यतिविकटकङ्कटसंटङ्कितपटिष्ठभटसङ्कटेषु न शक्यते प्रवेशः कर्तुम् । नृपतिस्त्वतीवोग्रदण्डप्रचण्डः । यदि कथमपि मामवाप्नोति तन्निश्चितं प्राणितेनापि न जहाति तत्किमनेन प्रचण्डाहितुण्डकण्डूयनकल्पेन नरेन्द्रद्रव्यापहारेण ?,
य ग्रहभयं प्राकारमुल्लङ्घय च द्वारारक्षकजागरूकपुरुषान् जित्वा स्वगत्या क्षणात् । नाद्यास्माद्यदि भूपतेर्भुवनतः प्राज्यं हिरण्यं हरे
तन्मे लोहखुरः पिता परमतः स्वर्गस्थितो लज्जते ॥७॥ भवतु तावत्, पुरो गच्छामि (इति परिक्रामति । नेपथ्याभिमुखमवलोक्य सविस्मयं )
...................................................
[ १3७
किमेष स्वर्गाणां सहजसुभगो वैभवभरः ? किमु ध्वान्तारातेः स्फुरदुरुमहः पिण्डितमद: ? । किमु प्राप्ता सेयं भुवि शिवसुखस्यैव कमला ? किमेतन्महृष्टेः शुचि रुचि चिरं गोचरमगात् ? ॥८ ॥ (पुनः सम्यगवलोक्य) कथमदः श्रीवर्धमानस्वामिनः समवसरणम् ? ( क्षणं स्मरणमभिनीय) अहो ! अस्य वाक्यमाकर्णयन्निवारितोऽस्मि स्वपित्रा । अयं सकलसुरासुरमनुजसंकुलायां परिषदि सद्धर्ममाचक्षाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org