________________
१३६]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः बाह्योद्यानमहीषु दैशिकमहाशालास्वथो देवताप्रासादेषु कथाप्रथास्वपि तथा वेश्याङ्गनावेश्मसु । ताम्बूलापणजाङ्गलापणफलद्यूतप्रसन्नापण
प्रेक्षास्थानचतुष्पथेषु सततं संवीक्षितस्तस्करः ॥१॥ कपिञ्जल:- लब्धो न वा ? । वञ्जुलः- न लब्धः । कपिञ्जल:- तर्हि विषममापतितमभयस्य । यत:
दुरास्कन्दः परास्कन्दी राजाज्ञाऽतिबलीयसी ।
लोकोऽप्यस्तोकशोकस्तन्न जाने किं भविष्यति ? ॥२॥ वञ्जल:- सखे ! अस्त्येतत्परं प्रत्युत्पन्नमतेर्महामात्यस्य न किमप्यगोचरम् ।
अपास्य यः स्वशेमुष्या सत्रा सुत्राममंत्रिणा । विश्वोपायनिधेस्तस्य कियद्दस्युपशुग्रहः ?॥३॥ तनिश्चितं तत्किमपि कापटिकं कर्माचरयिष्यति । यस्मिन् वर्यो गज इव स्वयमेवापतिष्यति सः । भवतु तावत्, कथय सांप्रतं
देवः वास्ते ? | कपिञ्जल:- मनोरमोद्याने श्रीमन्महावीरव्याख्यामृतमाकर्णयन्नास्ते । वञ्जुल:- व्रज त्वं तर्हि मनोरमोद्यानम् । अहमपि अमात्येन पुराध्यक्षकीनाशरक्षणायादिष्टोऽस्मि ।
(इत्युभावपि निष्क्रान्तौ ।)
॥ विष्कम्भकः ॥
(ततः प्रविशति रौहिणेयः ।) रौहिणेयः
पणीकृत्य निजप्राणान् ये न कुर्युः स्वचिन्तितम् । निस्सारैरतितुच्छेस्तैः पुरुषैः किं तुषैरिव ? ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org