SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः ] सुमुख:- ( सहर्षमुच्चैःस्वरं) वर्धसे देव ! वर्धसे, वन्दारुत्रिदशेन्द्रमौलिविलसन्मन्दारपुष्पोत्करप्रोन्मीलन्मकरन्दबिन्दुनिवहस्त्रातांहिपङ्केरुहः । त्रैलोक्यं समलंकरिष्णुरशुभं जिष्णुर्जिनग्रामणीः श्रीवीरः समवासरत्पुरबहिर्देवाधिदेवः प्रभुः ॥ ३९ ॥ राजा (सहर्षं) कथं वर्धमानस्वामी भगवान् मनोरमोद्यानभुवमलंकृतवान्? | तगृहाणैतत्पारितोषिकम् । ( इति तस्मै सर्वाङ्गीणाभरण[जात]मुपनयति । कुन्तलं प्रति) कार्यतां पटहप्रदानेन समस्तपुरशोभाः, प्रगुण्यतामगण्या स्नानविधिः आनीयन्तामग्रपूजोपचारसामग्यः । (अभयं प्रति) अमात्य ! सांप्रतप्रतिपन्नेऽर्थे प्रयत्नपरेण भाव्यम् । (वणिजः प्रति) व्रजत यूयं स्वस्वावसथेषु, अस्मिन्नर्थे न काचिच्चिन्ता विधेया । आरक्षक ! त्वमपि स्वनियोगमनुतिष्ठ । वयमपि श्रीवर्धमानस्वामिनं देवाधिदेवमष्टमहाप्रातिहार्य चतुर्विंशत्य (श्चतुस्त्रिंशद) तिशयपरिकलितमाराधयितुं समीहितं साधयामः । ( इति निष्क्रान्ताः सर्वे 1) ॥ तृतीयोऽङ्कः समाप्तः ॥ , ॥ अथ चतुर्थोऽङ्कः ॥ (ततः प्रविशति वञ्जुलः कपिञ्जलश्च) Jain Education International [ १३५ कपिञ्जलः- ततस्तत: ? । वञ्जुल:- तदनन्तरं महामात्यः सर्वतस्तं दिनत्रयं यावदवलोकयामास । कपिञ्जल:- कुत्र कुत्रावलोकित: ? । वञ्जुल: (सनिर्वेदं) यद्यकस्मिन् कस्मिंश्चित्स्थानेऽवलोकितो भवति तत्कथ्यते । For Private & Personal Use Only. - www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy