________________
१३४]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः राजा- (साधिक्षेप) अरे ! यदि भवतोऽपि किमपि सामर्थ्यमस्मिन्नर्थे
स्यात्तत्किमीदृगवस्थामाप्नुवन्ति पौराः । तदलमनया संकथया । अभयः- (प्रणम्य) देव ! क्रियतामस्मिन्नर्थे प्रसादः । वणिजः- स्वामिन् ! भवत्वेवम् । मन्यतामस्मिन्नर्थे निजमपत्यममात्यपुङ्गवः । अभयः- देव !
यदि वैरिणं पदातिनिहन्ति न प्राभवः प्रभावः किम् ? । अरुणेनापि हि निहते तमसि रवेः किं न महिमा स्यात्?॥३६॥
तदस्तु यन्मया विज्ञप्तम् । राजा- (विमृश्य सोपशमं) भवत्वेवम् । किन्तु कियद्भिर्दिनैस्तं
परास्कन्दिनमास्कन्दयिष्यसि ? । अभयः- तदहं बुद्धिमान् स्वामिन् ! तदहं भावतायिनि ।
दिवसैः पञ्चषैरेव चेगृहामि मलिम्लुचम् ॥३७॥ राजा- किमादिष्टेन बहुना ? शीघ्रं तस्करः समर्पणीयः, नो चेदात्मीयं
शिरः । अभयः- (शिरस्यञ्जलिं निधाय) देव ! महाप्रसादः । वणिजः- (सरोमाञ्चं) स्वामिन् ! निश्चितमतः परं प्रस्थितमेवोपद्रवैः । प्रकटितं कल्याणवल्लीभिः ।
(नेपथ्ये) अत्रार्थे कः सन्देहः ?, कल्याणं परमुल्ललास ननृतुस्ताः सर्वतः प्रीतयो जग्मुर्ध्वंसमशेषदोषनिवहाः पुष्टिं ययुः संपदः । जज्ञे सौख्यमसंख्यमत्र जगति स्फीताः क्षणादीतयो नेशुः कैश्चिदतः परं पुरि परैर्भाग्यैः समुज्जृम्भितम् ॥३८॥ कथमयं सुमुखो व्याहरति ? । (ततः प्रविशति हर्षोत्कर्षितमुखः सुमुखः ।)
राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org