________________
राजा
अभयः
तृतीयोऽङ्कः]
[१33 सविनयं) देव ! किं दूरादपि न प्रसादविकसन्नेत्राञ्चलप्रीणनं ? किं वाऽद्याद्भुतभूतिकृन्नतिमति पृष्ठौ न दत्तः करः ? । किं न प्रीतितरङ्गभङ्गसुलभालापैः प्रसादः प्रभो ! ? तत्कि दुर्विनयः वचित्कृत उताभाग्यैर्ममाद्योगतम् ? ॥३३॥ (सेय॑मभयमवलोक्य) अरे ! न ते दुर्विनयः कोऽपि नाभाग्यैः कैश्चिदुद्गतम् । दुष्कीर्तिकलुषः किन्तु सोऽहमेकोऽस्म्यभाग्यभूः ॥३४॥ (राज्ञः पादयोः शिरो निधाय सविनयं) अहह ! किमेवं देवपादाः समादिशन्ति विक्रुष्टवाक्यैः ? । किं कदाचित् क्वापि कश्चिदाज्ञातिक्रम
करोति ? । राजा- अरे कुलकलङ्क ! सकलभुवनातङ्क ! त्वरितमपसरास्मदृष्टिमार्गतः ।
(इति पाणिना प्रणिहन्ति ।)
(अभयः सविनयं पुनः पादौ स्पृशति ।) (तमवगणय्य) अरे ! आनयत कोदण्डशरधी । येनामी मामकीनाः प्रचुरपरिलसर्पवाणिज्यवर्या व्यारोहत्प्रौढसंपदयपहृतधनदश्रीगृहश्रीविलासाः । हारं हारं हिरण्यं निखिलमपि कृता नैगमा रोरकल्पा हत्वा तं स्तेनमद्य स्वयमनिशमनःसौस्थ्यमुच्चैविधास्ये ॥३५॥ (इति सकोपावेशं सिंहासनादुत्थानं नाटयति ।)
(वणिजः सभयं पलायितुमिच्छन्ति ।) (सानुनयं) देव ! किमेतत् ? । कस्योपरि किंनिमित्तोऽयमाक्षेपः? । तदासनमलंक्रियताम् । (इति सिंहासनमुपवेशयति । पुनर्नृपं प्रति) देव ! यद्येवं देवस्य दस्युनिग्रहकर्मणि महानाग्रहस्तदहमप्येनमर्थमाधास्ये ।
राजा
अभय:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org