________________
१३२]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः किञ्च- रात्रौ यत्र कपाटसम्पुटखटत्कारोऽपि हक्काध्वनिः
पूत्कारप्रसरः परः कलकलो हाहेति चाक्रन्दितम् । प्राकारे विशिखामुखे नृपपथे शृङ्गाटके चत्वरेऽगच्छं तत्र न तस्करं परमहं पश्यामि पश्यन्नपि ॥ तस्माद्देव ! यः कश्चिदलम्भूष्णुः पुरारक्षायां समर्प्यतां तस्मै स्वकां
दाण्डपाशिकताम् । (इति डङ्गामुपनयति ।) सिंहल:- (नेपथ्याभिमुखमालोक्य सहर्ष) कथमयमभयकुमारः सचिवाग्रणी:
समेति ? । विध्यातं तर्हि देवकोपानलेन ।
(ततः प्रविशति मुद्रालङ्कतकरोऽभयकुमारः ।) सिंहल:-. (ससंभ्रमं) इत इतो महामात्यः । (पुनर्नृपं प्रति) देव ! सचिवपुङ्गवः
प्रणमति ।
(राजा सक्रोधमनाकर्णितकेनास्ते ।) अभयकुमार:- (नृपं प्रणम्य यथास्थानसुपविशति । राजानमवलोक्य स्वगतं)
कथमद्य महाराजो मां न संभावयत्यालापप्रदानेन ?, आलोकमात्रेणापि न प्रसादपात्रीकुरुते । तन्नूनमन्तः क्वापि कलितकोपाटोप इव संलक्ष्यते। तथाहिदृष्टः कः स्फुटरोषभीषणफणाटोपेन शेषाहिना ? कालस्य क्रकचोपमप्रविलसदंष्ट्रे मुखे कोऽविशत् ? । अन्तर्विस्फुरदुग्रकोपघटितभ्रूक्षेपभीष्माकृतिईप्तारिस्मयसंचयव्ययकरो यस्मै चुकोप प्रभुः ॥३२॥ तथा चायं वणिग्जनः, अयं च पुरारक्षः, तन्नियतं भाव्यं केनापि हेतुना । (प्रकाशं सिंहलं प्रति अपवार्य) सिंहल ! किमेवं देवः कोपावेशवशंगतः ? । किमर्थे चामी वणिजः समाहूताः ? । किमयं कीनाशः सभय एवास्ते ? ।
(सिंहलो मन्त्रिणः कर्णे एवमेव ।) अभयः- (सशिरःकम्पं) आः ! ज्ञातम् । (पुनः क्षणं विमृश्य नृपं प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org